________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
व्यवस्थेत्यर्थः। एतेन स्वभावतो बहाया अपि प्रकृतेः स्वमोक्षी घटत इत्यतो न मुक्तपुरुष प्रति प्रवर्तते ॥७॥ ___ ननु पुरुष स्रष्टुत्वमध्यस्तमात्रमिति यदुक्त तब युक्तम् । प्रकृतिसंयोगेन पुरुषस्यापि महदादिपरिणामौचित्यात्। दृष्टी हि पृथिव्यादियोगेन काष्ठादेः पृथिव्यादिसदृशः परिणाम इति तवाह।
अन्ययोगेऽपि तसिड्र्नािञ्जस्येनायोदाहवत् ॥८॥
प्रवतियोगेऽपि पुरुषस्य न स्रष्टत्वसिद्धिराञ्जस्येन साक्षात्। तब दृष्टान्तोऽयोदाहवत्। यथायसा न दग्ध त्वं साक्षादस्ति किन्तु खसंयुक्ताग्निहारकमध्यस्तमेवेत्यर्थः । उक्तदृष्टान्ते तूभयोः परिणामः प्रत्यक्षसिद्धत्वादियते सन्दिग्धस्थले त्वेकस्य व परिणामेनोपपत्तावुभयोः परिणामकल्पने गौरवम् । अन्यथा जपासंयोगात् स्फटिकस्य रागपरिणामापत्ते रिति ॥ ८ ॥
सृष्टेः फलं मोक्ष इति प्रागुक्तम् । इदानों सृष्टेमुख्य निमित्तकारणमाह।
रागविरागयोर्योगः सृष्टिः॥१॥ रागे सृष्टिवैराग्ये च योगः स्वरूपेऽवस्थानम् । मुक्तिरिति यावत् । अथवा चित्तवृत्तिनिरोध इत्यर्थः । तथा चान्वयव्यतिरैकाभ्यां राग: सृष्टि कारणमित्याशयः । तथा च श्रुतिरपि ब्रह्मादिरूपां विविधकर्मगतिमुत्बाह इति तु कामयमानो योऽकामो न तस्य प्राणा उत्क्रामन्तीति। रागवैराग्य अपि प्रकतिधर्मावेव ॥
इतः परं सष्टिप्रक्रियां वक्तमारभते ।
For Private And Personal Use Only