________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः ।
वर्तमान स्रष्ट त्वादिकं शक्तिमत्स, पुरुषेषपचर्य ते शक्तिशक्तिमदभेदात् । तदुक्त कोर्मे ।
शक्तिशक्तिमतोर्मेदं पश्यन्ति परमार्थतः । अभेदं चानुपश्यन्ति योगिनस्तत्वचिन्तकाः ॥ इति भेदमन्योऽन्याभावभेदं चाविभागरूपं प्रवत्यादि. तत्त्वोपासकाः पश्यन्तीत्यर्थः। तयोचोदाहरणम्। अथात आदेशो नेति नेतीत्यादिश्रुतिः । आत्म वेदं सर्वमित्यादिश्रुतिश्चेति भावः ॥ ५ ॥
नन्वेवं प्रकृतावपि स्रष्टत्वं वास्तवमिति कुतोऽवतं सृष्टः खादितुल्यताया अपि श्रवणादिति तवाह।
कार्य तस्तसिद्धेः ॥ ६॥ कार्याणामर्थक्रियाकारितया वास्तवत्वेन कार्य्यत एव धर्मिग्राहकप्रमाणेन प्रकृतर्वास्तवस्रष्टसिद्धेरित्यर्थः । स्वपादितुल्यताश्रुतय स्वनित्यतारूपासत्त्वांशमात्रे पुरुषाध्यस्तत्वांशे वा बोध्याः। अन्यथा सृष्टि प्रतिपादक श्रुतिविरोधात् । स्वापदाथानामपि मनःपरिणामत्वेनात्यन्तासत्ताविरहाच्चेति ॥ ६ ॥
ननु प्रकृतः स्वार्थत्वपक्षे मुक्त पुरुषं प्रत्यपि सा प्रवर्तत तत्राद।
चेतनो शान्नियमः कण्टकमोक्षवत् ॥७॥ चिती संज्ञान इति व्युत्पत्त्या चेतनोऽत्राभिज्ञः। यथैकमेव कण्टकं यश्चेतनोऽभिजस्तस्मादेव मुच्यते तं प्रत्ये व दुःखात्मक न भवत्यन्यान् प्रति तु भवत्येव तथा प्रकृतिरपि चेतनाद. भिज्ञात् कतार्थादेव मुच्यते तं प्रत्येव दुःखात्मिका न भवति । अन्याननभिज्ञान् प्रति तु दुःखात्मिका भवत्येवेति नियमो
For Private And Personal Use Only