SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । पदार्थस्तदा तत्त्वमसीत्यादिवाक्यानामप्यवैधार्थकतैवास्तु । ननु प्रयोजनाभावान भेदपरत्व श्रुतीनां सम्भवतीति चेत्र मोक्षोपपादनस्यैव प्रयोजनवात्। सृष्टिसंहारयोः प्रवाहरूपेणानुच्छेदात् तस्य क्ये मोक्षानुपपत्तः। अथैवमात्मभेदम्य लोकसिद्धतया न तत्परत्व श्रुतीनां घटत इति मैवम् । लाघवतणाकाशवदात्मन्येकत्वस्यानुमानतः प्रसतस्य श्रुत्यादि. भिनिषेधात्। स्वपरचैतन्ययोर्भेदस्य चाप्रत्यक्षत्वात्। देहा. दिष्वेवानुभवात्। य एतस्मिन्बुदरमन्तरं कुरुतेऽथ तस्य भयं भवतीत्यादिभेदनिन्दा तु वैधम्यविभागान्य तरलक्षणभेदपरति। नन्वेवं मुक्तानां प्रतिविम्बावच्छेदश्रुतीनां का गतिरिति चेदुयते। अनेकतेजोमयादित्यमण्ड लवत् । अनेकात्ममयपि चिदादित्यमण्डलमे करसमविभक्तमकपिण्डौकत्य तस्य किरणवत् खांशभूतैरसंख्य पुरुषैरसंख्योपाधिष्वसंख्यविभाग एव प्रतिविम्बादिदृष्टान्तैः प्रतिपाद्यते विभागलक्षणान्यत्वस्य वाचा. रम्भणमात्रत्व बोधयितुं न पुनरखण्ड त्वम् । वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । इत्यादिसांप्रदृष्टान्तश्रुतीनां न्यायानुग्रहेण बलवत्त्वादिति। यथा च स्मयते। यस्य सर्वात्मकत्वेऽपि खण्डयते नैकपिण्डता । इति ब्रह्ममौमांसायां तु नित्याभिव्यक्त परमेश्वरचैतन्येऽन्येषां लयरूपाविभागेनाप्य तमुक्तमविभागो वचनादिति सूत्रेणेति । अधिकं तु ब्रह्ममौमांसाभाष्ये प्रोक्तमस्माभिरिति दिक। सूत्रस्य हितीयव्याख्यायां त्वयं भावः । प्रलयकाले पुरुषविजातीयं सर्वमेवासत्। अर्थक्रियाकारित्वाभावात्। पुरुषाणां कूटस्थत्व नार्थक्रियैवाप्रसिद्धेति। अत: सर्गकाल इव प्रलयेऽपि सत्त्वम् । अतस्तदात्मनां विजातीयतराहित्यम्। तथा सर्ग For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy