________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
कालेऽपि कूटस्थत्वरूपपारमार्थिकसत्त्वेनान्यन्नेति विजातीयहैतराहित्यात् सर्गकालौनाहतश्रुतयोऽप्युपपना इति ॥१५४॥
नन्वात्मन एकलवटेकरूपत्वमपि नानारूपताप्रत्यक्षेण विरुद्धं तत् कथमुक्त जातिपरत्वादिति तबाह । विदितबन्धकारणस्य दृष्ट्यातद्रूपम् ॥ १५५ ॥
विदितं स्पष्ट बन्धकारणमविवेको यत्र तस्य दृष्ट्ये व पुरुषेष्वतद्रूपं रूपभेद इत्यर्थः। अतो वान्तदृष्ट्या न रूपभेदसिद्धिरिति ॥ १५५ ॥
ननु तथाप्यनुपलम्भादेकरूपत्वाभावः सेत्स्यति तत्राह। नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः ॥ १५६ ॥
अनुपलम्भ एवासिद्धः। अरदर्शनेऽपि जानिभिरेकरूयत्वस्य दर्शनादित्यर्थः ॥ १५६ ॥
अह तश्रुत्यनुपपत्ति समाधायाखण्डाईते बाधकान्तर
माह।
वामदेवादिमुक्तो नाइतम् ॥ १५ ॥ वामदेवादिर्मुक्तोऽस्ति तथापौदानी बन्धः स्वस्मिन्ननुभवसिद्धः। अतो नाखण्डात्मा तमित्यर्थः। स चापि जातिस्मरणाप्तबोधस्तत्र व जन्मन्यपवर्गमापत्यादिवाक्यशतविरोधश्चेति शेषः । न चैवं बन्धमोक्षावुपाधेरेवेत्यवगन्तव्यम् । श्रुतिस्मृतिसिद्धान्तविरोधात्। दुःखं मा भुञ्जीयेति कामनादर्शनेन पुरुषमोक्षस्थ व मोक्षाख्यपरमपुरुषार्थत्वाच। उपाधेर्दु:खहानस्य च तादर्थ्येन परम्परयैव पुरुषार्थत्वात् पुत्रादिदिति । यदप्याधुनिकर्मायावादिभिरुच्यते । अतश्रुतिविरोधाबन्धमोक्षष्टिसंहारादिश्रुतयो बाध्यन्त इति । तदप्यसत् । मोक्षाख्यफलस्यापि श्रवणकाल एवाभावनिश्चये श्रवणोत्तरं मनना.
For Private And Personal Use Only