________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्
नन्वेवं पुरुषनानात्वे सति । एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः । एकः स भिद्यते शत्या मायया न स्वभावतः ॥
इत्याद्याः श्रुतिम तय आत्मैकत्वप्रतिपादिका नोपपद्यन्त इति तवाह।
नाईतश्रुतिविरोधो जातिपरत्वात् ॥१५४॥ यात्मैक्य श्रुतीनां विरोधस्तु नास्ति तासां जातिपरत्वात् । जाति: सामान्यमकरूपत्वं तत्रैवाईत श्रुतीनां तात्पर्य्यात् । न त्वखण्डत्वे प्रयोजनाभावादित्यर्थः । जातिशब्दस्य चैकरूप. तार्थकत्वमुत्तरसूत्रालभ्यते । यथाश्रुतजातिशब्दस्यादरे । आत्मा इदमेक एवाग्र आसीत्। सदेव सौम्येदमग्र आसीत्। एक. मेवाद्वितीयम्। इत्याद्यद्दतश्रुत्य पपादकतयैव सूत्र व्याख्येयम् । जातिपरत्वात्। विजातीयह तनिषेधपरत्वादित्यर्थः ।
तत्राद्यव्याख्यायामयं भावः। आत्मैक्यश्रुतिस्मृतिष्वेकादिशब्दाश्चिदेकरूपतामात्रपरा भेदादिशब्दाच वैधर्म्यलक्षणभेदपराः । एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिष स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यत इत्यादिवाक्य वेकरूपार्थत्वावश्य. कत्वात्। अन्यथावस्थात्रयेप्यात्मन एकतामात्रज्ञानेन स्थानजयव्यतीतशब्दोक्ताया अवस्थात्रयाभिमाननिवृत्त रसम्भवात् । तथैकरूपताप्रतिपादनेनैव निखिलोपाधिविवेकेन सर्वात्मनां स्वरूपबोधनसम्भवाच्च । न ह्यन्यथा निर्धर्मकमात्मस्वरूपं विशिष्य ब्रह्मणापि शब्देन साक्षात्प्रतिपादयितुं शक्यते । शब्दानां सामान्यमानगोचरत्वात्। आब्रह्मास्तम्बपर्यन्तेष्वा.
For Private And Personal Use Only