________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
हानिः। भेदाभेदविरोधश्च । अस्मन्मते त्वभेदोऽविभागलक्षणो भेदश्चान्योऽन्याभाव इत्यविरोध इति। अवच्छेदप्रतिविम्बादिदृष्टान्तवाक्यानि त्वग्रे व्याख्यास्यामः। स्यादेतत् । विम्बप्रतिविम्बादिभेदं परिकल्पा श्रुत्या बन्धमोक्षव्यवस्थाकल्पितेत्ये वास्माभिरुच्यते नतु परमार्थतो विम्बप्रतिविम्बभावस्तयोर्भेदो बन्धमोक्षादिकं चेष्यत इति। मैवम् । एवं सति बन्धमोक्षादिश्रुतिगणस्य भेदश्रुतिगणस्य चोभयोर्बाधापक्षया केवलाभेदश्रुतिगणस्य वाविभागपरतयैव सङ्कोचो लाघवाद्यक्तः। श्रुतिस्मत्यन्तरैरविभागस्य सिद्धत्वाचेति ॥ १५१ ॥
आत्मैक्यवादिषक्त दूषणमुपसंहरति ।
एवमेकत्वेन परिवर्त्तमानस्य न विरुद्धधर्माध्यासः ॥ १५२ ॥
एवं रौत्य कत्वेन सर्वतो वर्तमानस्यात्मनो जन्ममरणादिरूपविरुद्धधर्मप्रसङ्गो न युक्त इत्यर्थः । यह कद इति छेदः । एकत्वेऽभ्युपगम्यमाने परितः सर्वतो वर्तमानस्य सर्वोपाधिष्वनुगतस्य विरुद्धधर्माध्यासो नेति न किन्तु सर्वथा विरुधर्मसङ्गरोऽपरिहार्य इत्यर्थः । ननु पुरुषो निर्धर्मकस्तत्र कथं जन्ममरणबन्धमोक्षादिविरुद्धधर्ममार्यमापद्यते भवद्भिरपि सर्वेषां धर्माणामुपाधिनिष्ठत्वाभ्युपगमादिति चेत्र । उक्तधर्माणां संयोगवियोगभागाभोगरूपतया पुरुषे खौकारात् । परिणामरूपधर्माणामेव पुरुषे प्रतिधस्योक्तत्वादिति। यथा स्फटिकेषु लौहित्यनीलिमादिधर्माणामारोपितानामपि व्यव. स्थास्ति तथा पुरुषेष्वपि बुद्धिधर्माणां सुखदुःखादीनां शरीरादिधर्माणां च ब्राह्मण्य क्षत्रियत्वादौनामारोपितानामपि व्यवस्थास्ति यालेषु। यथा विष्णुपुराणे।
For Private And Personal Use Only