SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। कस्मिन्नेव वृक्षे व्यवस्था घटते। एको वृक्षः कपिसंयोगी। अन्यश्च नेति । किञ्चैकोपाधितो मुक्तस्याप्यात्मप्रदेशस्योपाध्यन्तः पुनबन्धापत्त्या बन्धमोक्षाव्यवस्था तदवस्यैव। यथैकघटमुक्तस्याकाशप्रदेशस्यान्यघटयोगाहटाकाशव्यवस्था तहदिति। न च बन्धमोक्षव्यवस्थाश्रुतिरपि लोकिकनमानुवादमात्रमिति वाच्यम्। मोक्षस्यालोकिकत्वात्। मिथ्यापुरुषार्थप्रतिपादनेन श्रुतेः प्रतारकत्वाद्यापत्तेश्च ॥ १५० ॥ ननु चैतन्यै क्येऽपि तत्तदुपाधिविशिष्ट स्यातिरिक्त तामभ्युपगम्य व्यवस्थोपपादनौया तत्राह । उपाधिर्भिद्यते न तु तहान् ॥ १५१ ॥ उपाधिरेव नाना न तु तहानुपाधिविशिष्टोऽपि नानाभ्युपेयो विशिष्टस्यातिरिक्तवे नानात्मताया एव शास्त्रान्तरेऽप्यभ्यपगमापत्तरित्यर्थः। बन्धभागिनो विशिष्टत्वे विशेषण वियोगेन विशिष्टनाशात्र मोक्षोपपत्तिरित्यादौन्यपि दूषणानि । ननु विशिष्ट स्थ जीवत्वमन्वयव्यतिरेकादिति षष्ठाध्याये स्वयमेवाहङ्कारविशिष्ट स्यैव जीवत्वं वक्ष्यतीति चेन्न प्राणधारकत्वरूपजीवस्यैव विशिष्टाधेयत्ववचनात्। न तु बन्धमोक्ष व्यव. स्थाया विशिष्टाथितत्वं वक्ष्यते मोक्षकाले विशिष्टासत्त्वादिति। यदपि केचित्रवीना वेदान्तिब्रुवा आहुः। एकस्यैवात्मनः कार्यकारणोपाधिष प्रतिविम्बानि जीवेश्वराः प्रतिविम्बानां चान्योऽन्यं भेदाज्जन्माखिलव्यवस्थोपपत्तिरिति । तदप्यसत् । भेदाभेदविकल्पासहत्वात्। विम्बप्रतिविम्बयोर्भेदे प्रतिविम्बस्याचेतनया भोक्तत्वबन्धमोक्षाद्यनुपपत्तिः जीवब्रह्माभेदरूपतसिद्धान्तक्षतिश्च । जीवेश्वरभिन्न स्यात्मनोऽप्रामाणिकत्वं च । अभेदे तु सायापरिहारः। भेदाभेदाभ्युपगमे तु तसिद्धान्त For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy