________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् |
एकस्या बुडेरयं घट इति वृत्तौ सत्यामन्यबुद्धिवृत्तिद्वारा नानुभवो घटमहं जानामीति ॥ १४८ ॥
तत्र सिद्धान्तमाह ।
जन्मादिव्यवस्थातः पुरुषबहुत्वम् ॥ १४८ ॥
पुण्यवान् स्वर्गे जायते पापी नरकेऽसो बध्यते ज्ञानी मुच्यत इत्यादेः श्रुतिस्मृतिव्यवस्थाया विभागस्यान्यथानुपपत्त्या पुषा बहव इत्यर्थः । जन्ममरणे चात्र नोत्पत्तिविनाशो पुरुषनिष्ठत्वाभावात् ।
किन्त्वपूर्वदेहेन्द्रियादिसङ्घातविशेषेण
संयोगश्च वियोगश्च भोगतदभावनियामकाविति । जन्मादिव्यवस्थायां च श्रुतिः ।
जामेकां लोहितशुक्लकृष्णां
बह्रोः प्रजाः सृजमानां मरूपाः । जो ह्येको जुषमाणोऽनुशे ते
जहात्येनां भुक्तभोगामजोऽन्यः ॥
ये तद्विदुरमृतास्ते भवन्त्यथेतरं दुःखमेवापि यन्ति 1
इत्यादिरिति ॥ १४८ ॥
ननु पुरुषैक्येऽप्युपाधिरूपावच्छेदकभेदेन जन्मादिव्यवस्था भवेत् तत्राह ।
उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव
घटादिभिः || १५० ५
उपाधिभेदेऽप्येकस्यैव पुरुषस्य नानोपाधियोगोऽस्त्य व यथेकस्यैवाकाशस्य घटकुड्यादिनानायोगः । व्यतोऽवच्छेदकभेदेनैकस्यात्मन एव विविधजन्ममरणाद्यापत्ति: कायव्यूहादावि वेति न सम्भवति व्यवस्था । एकः पुरुषो जायते नापर इत्यादिरित्यर्थः । न ह्यवच्छेदकभेदेन कपिसंयोगतदभाववत्य
For Private And Personal Use Only