________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
८५ सामान्य न विवादाभावाइर्मवन्न साधनम् ॥ १३८॥
यत्र वस्तुनि सामान्यतो विवादो नास्ति न तस्य स्वरूपत: साधनमपेक्ष्यते धर्मस्येवेत्यर्थः । अयं भावः । यथा प्रकृते: सामान्येनापि साधनमपेक्षितं धर्मिण्यपि विवादात् । नैवं पुरुषस्य साधनमपेक्षितम्। चेतनापलापे जगदाध्यप्रसङ्गतो भोक्तयहम्पदार्थे सामान्यतो बौहानामप्यविवादात्। धर्म इव। धर्मो हि सामान्यतो बौद्धरपि स्वीक्रियते तप्तशिलारोपणादिषु धर्मत्वाभ्युपगमात्। अतः पुरुषे विवेकनित्यत्वा. दिसाधनमात्रमनुमान कार्यमिति ॥ १३८ ।
संहतपरार्थत्वात् पुरुषस्य त्यु तसूत्रेणापि विवेकानुमानमेवाभिप्रेतम् । न तु तत्र पुरुषस्य सर्वथैवाप्रत्यक्षत्वमभिप्रेतमिति। तत्र चादौ विवेकप्रतिज्ञासूत्रम् ।
शरीरादिव्यतिरिक्तः पुमान् ॥ १३६ ॥ शरीरादिप्रकत्यन्त यच्चतुर्विंशतितत्त्वात्मकं वस्तु ततोऽतिरिक्तः पुमान् भोक्तत्यर्थः । भोक्तृत्व च द्रष्टुत्वमिति ॥१३८१
यत्र हेतूनाह सूत्रैः।
____ संहतपरार्थत्वात् ॥ १४०॥ यतः सर्व संहतं प्रक्कत्यादिकं परार्थं भवति शब्यादि. वत्। अतोऽसंहतः संहतदेहादिभ्यः परः पुरुषः सिध्यतीत्यर्थः । अयं च हेतुः संहतपरार्थत्वात् पुरुषस्येत्यत्र व्याख्यातः । उक्त स्यापि हेतोः पुनरुपन्यासो हेतुवर्गसङ्कलनार्थः ॥ १४ ॥ किञ्च।
त्रिगुणादिविपर्ययात् ॥ १४१ ॥
For Private And Personal Use Only