________________
Shri Mahavir Jain Aradhana Kendra
६४
सांख्यदर्शनम् ।
तदेवं महदादिषु काय्य त्व' मसाध्य साम्प्रतं तैः प्रक्कत्य
नुमानेऽनुक्त विशेषमाह ।
कार्य्यात् कारणानुमानं तत्साहित्यात् ॥ १३५॥
कार्यान्महादेर्लिङ्गात् सामान्यतो दृष्टं कारणानुमानं यदुक्तं तत् ताटस्थ्य निवृत्तये तसाहित्यात् काय्र्यसाहित्य नैव कर्त्तव्य सदेव सौम्य दमग्र आसीत् तम एवेदमग्र आसीदित्यादिश्रुत्यनुसारात् । तद्यथा । महदादिकं खोपहितत्रिगु णात्मकवस्तु पादानकम् । कार्य्यत्वात् । शिलामध्यस्थप्रति
मावत् । तैलादिवच्च त्यर्थः । अत्रानुकूलतर्कः प्रागेव दर्शित:
॥ १३५ ॥
www.kobatirth.org
ܬ
Acharya Shri Kailassagarsuri Gyanmandir
तस्याः प्रकृतेः कार्य्याद्वैधर्म्य विवेकार्थमाह ।
अव्यक्त' चिगुणाल्लिङ्गात् ॥ १३६ ॥
अभिव्यक्तात् त्रिगुणान्महत्तत्त्वादपि मूलकारणमव्यक्त' सूक्ष्म महत्तत्त्वस्य हि सुखादिर्गुणः साचात् क्रियते प्रकृतेख गुणोऽपि न साचात् क्रियत इति । प्रधानं परमाव्यक्तं महतत्त्व तु तदपेक्षया व्यक्तमित्यर्थः ॥ १३६ ॥
ननु परमसूक्ष्म चेत् तर्हि तस्यापलाप एवोचित इत्याकाङ्क्षायां पूर्वोक्तं स्मारयति ।
तत्कार्य्यतस्तत्सिद्धेर्नापलापः ॥ १३७ ॥
सुगमम् ॥ १३७ ॥
प्रकृत्यनुमानगता विशेषा विस्तरतो विचारिताः । इतः परमध्यायसमाप्तिपर्य्यन्त पुरुषानुमानगता विशेषा विचास्तव काञ्चनादौ विशेषमाह ।
For Private And Personal Use Only