________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
न्वयेन समनुगतेन पुनरुपचीयते । अत: समन्वयात् कार्यत्वमुन्नौयत इत्यर्थः। नित्यस्य हि निरवयवतयावयवानुप्रवेश रूपः समन्वयो न घटत इति। समन्वये च श्रुतिः प्रमाणं मन: प्रकृत्य । एवं ते सौम्य षोड़शानां कलानामेका कलातिशिशभूत् सानेनोपसमाहिता प्राज्वालीदिति । योगसूत्रं च जात्यन्तरपरिणामः प्रत्यापूरादिति ॥ १३१ ॥ किञ्च।
__ शक्तितश्चेति ॥ १३२॥ करणतश्चेत्यर्थः । पुरुषस्य यत् करणं तत् कार्य चक्षुरादिवदिति भावः । पुरुष साक्षादिषयापकत्व प्रकृतेर्नास्तीति प्रकतिर्न करणमिति। अतो महत्त्वस्य करणतया कार्यले सिद्ध सुतरामन्येषामपि कार्य त्वम्। इतिशब्दश्च हेतुवर्गसमाप्तिसूचनार्थः ॥ १३२ ॥ ___ यदि च महदादिमध्य किञ्चिदकायं स्वीक्रियते तदापि तदेव प्रकृति: पुरुषो वेति सिद्ध न: समीहितम् । प्रकृतिपुरुषो प्रसाध्य परिणामित्वापरिणामित्वाभ्यां विवेक्तव्यावित्यत्वे वास्माकं तात्पर्यादित्याह।
तदाने प्रकृति: पुरुषो वा ॥ १३३ ॥ तहाने कार्य वहाने यदि परिणामौ तदा प्रकृतिः । यदि वा परिणामी भोक्ता तदा पुरुष इत्यर्थः ॥ १३३ ॥ ननु नित्यमप्यु भयभिन्न स्यात् तत्राह।
तयोरन्यत्वे तुच्छत्वम् ॥ १३४ ॥ अकार्यस्य प्रकतिपुरुषभिवत्वे तुच्छत्व शशशृङ्गादिवत् प्रमाणाभावात् । बकायं हि कारणतया वा भोक्ततया वा सिध्यति नान्यथेत्यर्थः ॥ १३४ ॥
For Private And Personal Use Only