________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
सांख्यदर्शनम्।
सुखदुःखमोहात्मकत्वादिवपरीत्यादित्यर्थः । शरीरादीनां हि यः सुखाद्यात्मकत्व धर्मः स सुखादिभोक्तरि न सम्भवति । स्वयं सुखादिग्रहणे कर्मकर्तविरोधात्। धर्मि पुरस्कारणेव सुखाद्यनुभवादिति । ननु बुद्धित्तिप्रतिविम्बितं वसुखादिक पुरुषेण रायतां स्ववदिति चेन्न । एवं सति बुडेरे व सुखादिकल्प नौचित्यात्। पुरुषगतसुखादेबुद्धौ प्रतिविम्बकल्पने गौरवात्। अहं सुखो दुःखो मूढ इत्यादिप्रत्य यास्तु न पुरुषे सुखादिसाधकाः । तत्स्वामित्व नाप्युपपत्तेः। बुद्धेः सुखादिमत्त्वनाप्युपपत्तेश्च । लौकिक्यां यहम्ब द्धाववश्य बुद्धिरपि विषयो मिथ्याज्ञानवासनादिरूपदोषानुवृत्त स्तप्रतिविम्बकल्पनायां च गौरवादिति। श्रादिशब्देन चान त्रिगुणमविवेकि विषय इति कारिकोक्ताविवेकित्वादयो ग्राद्याः। तथा रूपा. दयः शरीरादिधर्मा ग्राह्याः ॥ १४१ ॥ किञ्ज।
- अधिष्ठानाच्चेति ॥ १४२ ॥ भोक्तरधिष्ठात्वाच्चाधिष्ठेयेभ्यः प्रकृत्यन्तेभ्योऽतिरिक्तते. त्यर्थः । अधिष्ठानं हि भोक्तः संयोगः स च प्रकृत्यादौनां भोगहेतुपरिणामेषु कारणम्। भोक्तरधिष्ठानात् भोगायतननिर्माणमिति वक्ष्यमाणसूत्रात्। संयोगश्च भेदे सत्येव भवतीति भावः । इतिशब्दो हेतुसमाप्तौ ॥ १४२ ॥ उक्तानुमानेऽनुकूलतर्क प्रदर्शयति सूत्राभ्याम् ।
भोतृभावात् ॥ १४३ ॥ यदि हि शरीरादिस्वरूप एव भोक्ता स्यात् तदा भोक्तत्वमेव व्याहन्येत। कर्मकर्तृविरोधात् । स्वस्य साक्षात् स्वभोकृत्वानुपपत्ते रित्यर्थः । अनुपपत्तिश्च पूर्वमेव व्याख्याता। अत्र
For Private And Personal Use Only