________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૮૨
Acharya Shri Kailassagarsuri Gyanmandir
' वितथं ' अलीकं श्रेणिकराजरजोहरणवन्दनादि, न ह्येतदागमे कचिल्लिखितमस्ति, येन सत्यं स्यात् परं लिङ्गिनः स्ववन्द्यतापादनायै तदपि धर्म इति भाषन्ते, यदाह - " श्रीश्रेणिकः क्षितिपतिः किल सारमेय - लाङ्गूलमूलनिहितं यतिवद्ववन्दे । भक्त्या रजोहरणमित्यनृतं वदन्ति ही !!! लिङ्गिनो वृषतया कुधियः प्रलब्धुम् ॥ १ ॥ तथा यदपि, अपिः समुच्चये । यच्चानुचित-मयोग्यं पित्राद्युद्देशेन यात्राकरणादि निमित्तं हि धर्मनिमित्तं हि कृत्यजातं जिनमन्दिरे कर्त्तुमुचितं, नान्यत् । पित्राद्युद्देशेन तु यात्रादि तत्र विधीय
99
गुणगानविकल केवल स्नेहनिबन्धनत्वान्न धर्मः परं तदपि लिङ्गनो धर्मोऽयमित्यभिधाय स्वोपयोगाय विधापयन्ति । तथा यल्लोको - जैनमार्गबहिभूतः शिष्टजनः 'लोकोत्तरो' जिनप्रवचनं, ताभ्यामुत्तीर्ण - बाह्यं सूतकभिक्षाग्रहणादि, एतत् हि लोकलोकोतरयोर्विरुद्धत्वात् न धर्मस्ते तु गायदिहेतुनैतदपि धर्म इत्यभिदधति, यदाह - "मिक्षासूतकमन्दिरे भगवतां पूजा मलिन्या स्त्रिया, हीनानां परमेष्ठि संस्तवविधिर्यच्छिक्षणं दीक्षणम् | जैनेन्द्रप्रतिमाविधापनमहो तल्लोकलोकोत्तर - व्यावृत्तेरथ- हेतुमप्यधिषणाः श्रेयस्तया चक्षते ॥ १ ॥ " तथा यद्भवहेतुरेव - संसारकारणमेव 'भविनां ' देहिनां जिनमन्दिरे जलक्रीडादि । एतद्धि मदनोद्दीपनत्वात् क्रीडामात्रत्वेनातात्विकत्वाच्च संसारवर्द्धनमेव, परमेतदपि लिङ्गिनो धर्मच्छद्मना स्वावलोकन कुतूहलेन कारयन्ति । तथा यत् 'शास्त्रबाधाकरं' सिद्धान्तविरोधाधायकम् औदेशिक भोजनादि, यथा चौद्दिशिकादीनां शास्त्रबाधितत्वं तथा प्राग्रेवोपपादितं, अथवा आषाढचतुर्मासिकात् पञ्चाशत्तम दिनप्रतिपादितस्य पर्युषण पर्वणः श्रावणाद्याधिक्यवति वर्षेऽशीतितमेऽह्नि विधानं । ननु ब्रुवन्तु ते स्वमति कल्पितं मार्ग, तथा वितथादिस्वभावत्वात्तं न कोऽपि ग्रहीष्यति, तथा चोक्तोऽप्यनुक्तकल्पो लोकोपादानाभावेन प्रसराभावादित्यत आह-' मूढा ' अज्ञानिनः तद्धर्मव्याजेन लिङ्गिप्ररूपितं मतं अर्हन्मतभ्रान्त्या जिनमार्गोऽयमिति मिथ्याज्ञाने ' लान्ति ' उपपादते । अयमर्थः यथोभयगतचाकचिक्यादि सद्दृशधर्मोपलम्भात् परस्परव्यावर्त्तक देश जात्यादि-भेद धर्मानुपलम्भाच अरजनेऽपि शुक्तिकायां रजतमेतदिति धिया भ्रान्ताः प्रतन्ते, अथेहापि सन्मार्गासन्मार्गगत जिनदेवताऽभ्युपगमबाह्यवेषादि समानधर्मावगमादन्योन्यव्यवच्छेदकविध्यविधिप्रवृत्त्यादि विशेषधर्मानवगमाच्च वितथत्वादिना वस्तुतोऽनर्हन्मतेऽपि प्रकृतमार्गेऽर्हन्मतमेतदिति बुद्धधा मूढाः प्रवर्त्तन्त इति, न केवलमेते कुमार्गं वदन्ति मूढास्तु तं गृहन्त्यपीति च शब्दार्थः । हा इति खेदे ' दुरन्तदशमाश्चर्यस्य' दुःखावसानान्त्यश्चार्यस्य 'विस्फूर्जितं ' विजृम्मितमेतदिति, कथमन्यथा कुपथस्याप्येतस्य बहुमुग्धजनोपादेयता स्थादतः कष्टमेतत् यद् अद्यापि अयं कुमार्गोऽस्खलितप्रसरोऽनुवर्त्तत इति वृत्तार्थः ॥ २८ ॥
For Private And Personal Use Only