________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतया दिशतः सत्पथगामिनश्च धार्मिकान् स्ववचनाऽननुरोधित्वेनाशतया अवजानानस्य कस्यचिद्यथा छन्दाचार्यग्रामण्यो प्रस्तुतप्रशंसया स्वरूपमाह
कष्टं नष्टविशां नृणां यदशां जास्यन्धवैदेशिकः ॥ २९ ॥
व्याख्या-'कष्टं दुःखमेतत् नः चेतसि वर्त्तते, यत् किमित्याह, यदिति वाक्योप. क्षेपे, यकृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुरावानं प्रदिशतीति सम्बन्धः। तत्र 'नृणां' पुंसां ' नष्टदृशां ' अलोचनत्वाकान्तारपातेन दिङ्मूढत्वाच्च प्रभ्रष्टप्राची. प्रतीच्यादिककुपविभागपरिच्छिदानां अशां' काचकामलादिना दृग्विकलानां, न तु जन्मान्धानां, जन्मान्धो-जन्मभिव्याप्त्या लोचनरहितः । न तु सोऽपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथश्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं ' वैदेशिक ' इति । विदेशेयोजनव्यवहिते देशान्तरे जातो बर्द्धितश्चेति वैदेशिकः । सहि तद्देशस्वरूपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्ग जानीयादपि, ततः कर्मधारयः। ‘कान्तारे' जनसञ्चारशून्ये दुर्गवर्त्मनि 'प्रदिशति' प्रतिपादयति । 'अभीप्सितपुरावानं ' जिगमिषितः नगरमार्ग, किलेति वार्तायां । ' उत्कन्धरः' उद्ग्रीवः कंधरामुन्नमय्य भुजदण्डमुक्षिप्य कथयतीति कष्टमेतत् । तुः पुनरर्थे । 'इदं' वक्ष्यमाणं पुन: 'कष्टतरं' पूर्वस्मादपि कष्टान्महत्कष्टं । यत् किमित्याह-' सोऽपि' प्रागुक्तो मार्गदेष्टा 'सुदृशो' निर्मलनयनानत एव 'सन्मार्गगान्' इष्टनगरसुगमपथपस्थितान् ' तद्विदः' सम्यक् सन्मार्गज्ञान यत् हसति, सावज्ञमिति क्रियाविशेषणं-सावहे ' अज्ञानिव ' मार्गानभिज्ञानिव । यथा मार्गानभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन, तथैतेऽपि तेन । एवं प्रस्तुतमुपमानं योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते-कष्टमेतत् यन्नृणां-सत्पथेच्छुपुरुषाणां 'नष्टदृशां' अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानात् अदृशा-सम्यग्ज्ञानदर्शनविकलानां 'जात्यन्धः ' सिद्धान्तरहस्यलेशानभिज्ञः सर्वथा अगीतार्थः । सोऽपि गीतार्थसंवासादेः कथश्चित् मोक्षपथकथनप्रवीणः स्यात्-तत्राह-'वैदेशिको' गर्हिताचारत्वाद् गीतार्थमुनि. पुङ्गवसङ्गमात्रवर्जितः। एष चाधुनिकदुसङ्घप्रवरो निश्शकं निःश्रेयसपथप्रत्यार्थिमार्गकथनदीक्षितो यथाछन्दशिरोमणिः कश्चिदाचार्यों मन्तव्यः। ‘कान्तारे' भवमहाटव्यां 'प्रदिशति' अभीप्सितपुरावानं-मुक्तिमार्ग 'उत्कन्धरो' दर्शिताहङ्कारविकारः। तथा य सोऽगीतार्थ उत्सूत्रभाषको मिथ्यादृष्टिः कथञ्चिदपि ' सत्पथं' मोक्षमार्ग न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति, इति कष्ट,
For Private And Personal Use Only