________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदानीं योग्यश्रोतुरग्रे साधुवेषकल्पिते पथि दशभिः तत्प्ररूपितं धर्म कथयन् तस्य च कर्मनिर्मूलनक्षमत्वमसम्भावयन् इदमाह
यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा ॥ ५ ॥ व्याख्या-अत्र पथि अयं धर्म:-चेत्कर्महरो भवेत् तदा मेरुरब्धौ तरेदिति सम्बन्धः। ' अत्र' अस्मिन् प्रत्यक्षोपलभ्यमाने ' पथि' मार्गे लिङ्गिकल्पिते मते धर्मऔदेशिकभोजनादिः, अयं चेत् ' यदि 'कर्महरो' ज्ञानावर्णादिध्वंसदक्षो ' भवेत् । स्यात् तदानीं मेरुर्लक्षयोजनमान:-पर्वतराजः 'अब्धौ' सागरे तरेत् । अयं च 'निदर्शना. लङ्कारः-ततश्चायमर्थः-समुद्रे पाषाण खण्डस्य तरणमसम्भवि किं पुनर्मेरोः १, ततो यथा मेरोः समुद्रतरणमघटमानं एवमस्य धर्मस्य कर्महरत्वमिति । ' यत्र' यस्मिन्पथि, किं ? यतीनामौदेशिकभोजनादिर्धर्म इष्यत इति सर्वत्र क्रियाऽध्याहारः । तथा ' उद्देशेन' विकल्पेन-यतीन्मनसि कृत्वा निवृत्तं-निष्पादितं औदेशिकं । क्रीतादिकत्वाद्-इकण । तच्च तद्भोजनं चाशनादि । यद्यपि सिद्धान्ते औदेशिकशब्द उद्गमदोषद्वितीय भेदार्थः श्रूयते, तथापीह वक्ष्यमाणवृत्तार्थपर्यालोचनेन आधाकर्मणि वर्त्तते, तस्यैवेह केवलयतिनिमित्त विधीयमानत्वेन महादोषतया विवक्षितत्वात् , उद्देशनिवृत्तस्य च सामान्य व्युत्पत्यर्थस्योभयत्रापि समानत्वात् । अत्र यतीनामौदेशिकभोजनग्रहणे यथाछन्दा युक्तिं दर्शयन्ति-पूर्व हि बहवोऽत्यन्तं दानश्रद्धालवः श्राद्धा अभूवन् , तेन यतीनां प्रासुकैषणीयेनापि भैक्ष्येण निराबाधं निर्वाहोऽभूत् , इदानीं दुष्षमाकालदोषात् दरिद्रतामल्पतां च गच्छत्सु श्राद्धेषु ऐदंयुगीनमुनीनां तथाविधशक्तिसंहननविकलानां शुद्धेन भक्तादिना संयमनिर्वाहाभावे यदि कश्चिच्छद्धालुस्तीर्थाविच्छेदमिच्छुः श्राद्धः साधुसङ्घनिमित्तकृतभक्तादिनाऽपि धर्माधारं शरीरमवष्टम्भयेत् तदा को दोषः ? आत्मा च यतिना यथा कथञ्चन रक्षणीयः, तस्माद्यतीनामाधाकर्मिकभोजनमदुष्टं, संयमशरीरोपष्टम्भकत्वात् ,कल्पग्रहणवच्छुद्धभोजनवद्वा। तथा यतिभिराधाकर्मिकभोजनं विधेयं, श्राद्धश्रद्धावृद्धिहेतुत्वात् , धर्मदेशनवदिति प्रयोगावप्युपपद्यते १। तथा 'जिनाना' अर्हतां गृहं, तत्र 'वासः' सर्वदाऽवस्थानं । इह केचित्सुखशीलतयोधतविहारं कर्तुमशक्नुवन्तो यतीनां चैत्य एव सदाऽवस्थान युक्तमिति प्रतिपेदिरे, ते चाहुः-तस्मात् इदानीं जिनगृहवास एव साधूनां सङ्गतः प्रतिभाति, न च तत्राधाकर्मिकादयो दोषाः, तीर्थकरार्थ कृतत्वात् । चैत्यम्-इदानीन्तनमुनीनामुपभोगयोग्यं, आधार्मिकदोषरहित. त्वात् , शुद्धाहारवदित्यादि । तदेवं सूक्ष्मदृष्ट्या विमृशतां विदुषां चित्ते चैत्यवास एवेदा
For Private And Personal Use Only