________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विधः स सञ्चस्तस्याम्नाया-शिष्यप्रशिष्यादिसन्तानः तत्र रक्ताः-प्रीतिमन्तः, यद्वा सक्लिष्टादिविशेषणोपेतो जनो नाम सुविहितसङ्घतस्याम्नायो-गुरुपारम्पर्यागतश्रुतविरुद्धाचारणा, तत्र रक्ताः-पक्षपातिनस्तेः, न हि स्वसदृशजनाचरितं प्रामाण्येन प्रतिपद्यन्ते, अत एव एवंविधा जिनोक्तप्रत्यर्थिनमेव मार्ग प्रथयन्ति । अथ दीप्यमाने सूर्ये इव पारमेश्वरे पथि कुत एवं प्रथनस्य तमस इवावकाशस्तत्राह- जगति' लोके 'विरलतां' स्तोकतां-अल्पजनाभ्युपगमनीयता 'याति' प्राप्नुवति सति । कस्मिन् ? जैनेन्द्रमार्गेभगवत्प्रणीते शुद्ध प्रतिश्रोतसि पथि । कस्मादेतत् ? इत्यत आह-प्रोतसर्पदित्यादि, प्रोत्सपैत्-श्रीवीरमुक्तिसमये तजन्मराशिसक्रान्त्या तत्पक्षसङ्घस्य बाधाविधायित्वात् प्रोज्जृम्भमाणो भस्मराशिनामा-मङ्गलादिवत् क्रूरग्रहस्तस्य 'सखा' मित्रं, राजादित्वात् । ततश्च प्रोत्सर्पद्भस्मराशिग्रहसखं यद्दशमाश्चर्यम्-असंयतपूजालक्षणं । अत्र च सख्यं भस्मराशिदशमाश्चर्ययोलौकिकसखयोरिव द्वयोरपि साहचर्येण दुष्क[ ऐकका]र्यकारित्वं यथाछन्दप्राबल्यकारित्वेन मिथ्यात्वपोषस्तस्य साम्राज्यमिव, साम्राज्यं यथा राज्ञः कस्यचित सकल-मण्डलाधिपत्यं[रिपुवि]जयपुरस्सरमाज्ञैश्वर्य साम्राज्यमुच्यते, एवमिहापि सुविहित जन-तिरस्कारेण सकललोकस्यासंयतजनवशवर्तित्वं दशमाश्चर्यस्य साम्राज्य, तेन 'पुष्यद्' एधमानं-वर्द्धमानं 'मिथ्यात्वं' अतत्वे तत्त्वप्रतिपत्तिरूपं, तदेव 'ध्वान्तं' अन्धकारं, सम्यग्ज्ञानावलोकन-निरासक्षमत्वात् , तेन 'रुद्धे' व्याप्ते जैनेन्द्रमार्गे । अथ क सति जैने. न्द्रमागें। मिथ्यात्व[ध्वान्त]रुद्धत्वाद्विरलता प्राप्ते? इत्याह-इह किलेत्यादि, इह-जगति, किल-शब्दार्थस्त्वग्रे वक्ष्यते, प्राणिवर्गे-मानवसमुदाये सति । किंरूपे ? लोकोक्त्या कलि. कालो जिनोक्त्या दुःषमाकालस्तेन, कलिकाल एव-दुःषमाकाल एव निखिलानाचारगरलनिलयत्वाद् व्याल:-सर्पस्तस्य 'वक्त्रान्तरालं' वदनमध्यं, तत्र स्थिति' अवस्थानं 'जुषते' सेवते यः तस्मिन् । अत एव तत्त्वेषु भगवत्प्रणीतेषु जीवाजीवादिषु 'प्रीतिः एतान्येव वास्तवानि तत्वानि, न तु कुतीर्थिकप्रणीतानि, [इति] चेतसः प्रमोदः । तथा 'नीते'
या॑यस्य-सदाचारस्य 'प्रचारः' प्रवृत्तिः । ततश्च गतौ-यथाक्रमं कुदर्शनाभ्यास-दुर्विदग्घत्वेन प्रमादाक्रान्तत्वेन च नष्टौ [तव]प्रीति-नीति-प्रचारौ यस्य स तथा, तस्मिन् । तथा, 'प्रसरत्' तथाविधगुरुसम्प्रदायाभावात्-प्रादुर्भवद् ‘अनवबोधः' सम्यक्सिद्धान्तार्थापरिज्ञानं, तेन परिस्फुरन्तः कापथानां 'ओघा' समूहास्तैः 'स्थगितः' तिरस्कृतः सुगतेरपवर्गलक्षणायाः 'सो' निष्पत्तिर्यस्य स तथा, तस्मिन् । 'सम्प्रति' इदानी। किलेति सम्भावने, सम्भाव्यते एतत् यत्कलिकालानुभावात् सम्प्रत्येवंविधे प्राणिवर्ग इति वृत्तद्वयार्थः ॥ ३-४॥
For Private And Personal Use Only