________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तान्येव-चैत्यान्येव कूटः हरिणवन्धनयन्त्राणि तत्र पतितस्यान्यस्य मृगस्य कूटे पतितस्य मोक्षः कष्टेन । पुनः कथम्भूतस्य ? तराम्-अत्यर्थम् अन्त:-मध्यहृदये ताम्यतः-खेदं कुर्वतः 'कदाछुटिष्येऽह '-मिति खिद्यमानस्य । पुनः कथम्भूतस्य ? तन्मुद्रादृढपाशबन्धनवतः, तस्य कुसङ्घस्य मुद्रा-मर्यादा 'अस्मच्चैत्य एव समागन्तव्य'-मिति, सैव दृढः-निविडो या पाशस्तस्य बन्धनं यस्य स तस्यान्यस्य हरिणस्य दवरिकादिनिर्मितग्रंथिविशेषपाशे पतितस्य मोक्षो नेति । पुनः किम्भूतस्य ? स्पन्दितुं-चलितुं न शक्तस्य-न समर्थस्य । पुनः किम्भूतस्य भव्यजन्तोः ? मुक्त्यै-मुक्त्यर्थ कल्पितदानशीलतपसोऽपि, कल्पितम्-आचरितं स्वबुद्ध्या दानं शीलं तपो येन तस्य, यद्यपि तपाप्रभृति मुक्त्यर्थ करोति तथापि न मोक्षः । पुनः कथम्भृतस्य ? एतत्क्रमस्थायिनः, एतस्य-कुसङ्घस्य यःक्रम:-परम्परा तत्र स्थायिनः। हरिणपक्षे एतस्य मृगस्य प्रहारार्थ सज्जितः क्रमःचरणस्तत्र स्थायिनः पादपतितस्येत्यर्थः ॥ ३३ ॥॥ इति द्वारदशकं व्याख्यातम् ॥ पुनरप्याह
इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चिन्भेदं ज्ञासीदनुचितमथो मा कुपत्कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य →स्तत्प्रमोहा,
पोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥ ३४ ॥ व्याख्या-इत्थं० ॥ इत्थम्-अमुना प्रकारेण तथ्ययाऽपि-सत्ययाऽपि मिथ्यापथकथनया, मिथ्यापथस्य-हीनाचारिमार्गस्य कथना-प्रकटना तया, इह प्रवचने कश्चिजन्तुर्जिनशासनस्थः मा इदं ज्ञासीत् , यदिदं परदोषोद्घाटनम् अनुचितम्-अयोग्यम् । अथो-अथवा कोऽपि-कश्चिदपि मा कुप्यत्-मा क्रुध्यते यत् 'किमनेन रागद्वेषवाक्येने'ति कोपं-द्वेषं मा करोतु यस्मात्कारणात् जैनभ्रान्त्या-जैनमार्गभ्रमेण कुपथपति तान् कुपथे हीनाचारीप्ररूपिते पतीतान् नृन्-नरान् प्रेक्ष्य अथ तत्प्रमोहापोहाय, तेषां-जन्तूनां प्रमोह:-अज्ञानं तस्याऽपोहः-निराकरणं तस्मै, तन्मोहनिराकरणाय इदं-प्रत्यक्षं किमपि कियन्मात्रं कृपया-दयया 'अहो! अमी वराकाः कथं भविष्यन्ती? ति कृपया कल्पितंप्रोक्तं च-पुनर्जल्पितं-ग्रन्थरचनया प्रारब्धं न तु रागद्वेषाम्यामिति ॥ ३४ ॥
तत्र कारणमाहप्रोद्भूतेऽनन्तकालात्कलिमलनिलये नाम नेपथ्यतोऽहन्, मार्गभ्रान्ति दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन् दुरध्वे ।
For Private And Personal Use Only