________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसयां विवक्षे; दम्भोऽम्भोधेः प्रमित्सेत् स सकलगगनोल्लङ्घनं वा विधित्सेत् ॥ ३५ ॥
व्याख्या-प्रोद्भ० ॥ यः पुरुषः अस्मिन् दुरध्वे-दुष्टमार्गे हीनाचारिप्ररूपिते दोषसङ्ख्याम्-इयत्तया दोषपरिमाणं विवक्षेत्-वक्तुमिच्छेत् स पुरुषः अम्भोधेः-समुद्रस्य अम्मा-जलं प्रमित्सेत्-प्रमातुमिच्छेत् वा-अथवा सकलगगनोल्लङ्घनं-समस्ताकाशस्य पझ्यामुल्लङ्घनं विधित्सेत्-कर्तुमिच्छेत् । यथा समुद्रजलमानम् आकाशलङ्घनं कर्तुमशक्यं तथा हीनाचारिदोषसङ्ख्या वक्तुं न पार्यत इति । कथम्भूतः ? यः कारुण्यात्दयातो नृषु-नरेषु कुबोध-कुतत्त्वज्ञानं निरसिसिषुः-भक्तुमिच्छुः । कथम्भूते दुरध्वे ? अनन्तकालात्-अनन्तकालेन प्रोद्भूते-संजाते । पुनः किम्भूते ? कलिमलनिलये-पापस्थाने । पुनः किम्भूते ? नामनेपथ्यतः, नाम्ना नेपथ्यं-वेषस्तस्मात् नाममात्रवेषधारणतोरहेन्मार्गभ्रान्ति दधाने 'अहो ! अमी वेषमात्रधारका अपि साधवः' इति भ्रान्ति विधायके । अथ च-पुनरपि तत्त्वतः-परमार्थतः-तदभिमरे, तस्य-अर्हन्मतस्य अभिमरे-घातके चौरप्राये, यथा चौराः प्रच्छन्नवृत्या वेषपरावर्तेन राजादिकं प्रत्ति तथा एतेऽपि लिङ्गमात्रधारकत्वेनाऽर्हन्मार्गघातका एवेति ॥ ३५ ॥
न सावधाम्नाया न बकुश--कुशीलोचितयति, क्रियामुक्ता युक्ता न मद-ममता-जीवनभयैः । न संक्लेशावेशा न कदभिनिवेशा न कपट,
प्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः ॥ ३६ ।। व्याख्या-न सा० ॥ ते अद्यापि-साम्प्रतमपि इह-जिनशासने यतयः-साधवः स्युः ये एवंविधाः। किम्भूताः ? न सावद्याम्नायाः, सावद्यः-सपापः आधाकर्मभोजनादिरूपम् आम्नाय:-परम्परा येषां ते तथा चैत्यवासाद्याम्नायवन्तो ये नेत्यर्थः । पुनः किम्भूताः ? बकुशकुशीलोचितयति-क्रियामुक्ता न, बकुशं-सबलम् अतिचारपङ्केन चारित्रं येषां ते बकुशाः, कुत्सितं शीलं-चरणं येषां ते कुशीलाः, तेषामुचिता-योग्या या यतिक्रिया-साधुसामाचारी तया मुक्ता-वियुक्ता न ये तावद् बकुशकुशील क्रियावन्तस्ते. ऽधुना सुसाधव एव, "बकुशकुशीले हि वदृपरितित्थं " इतिवचनात् । अत्र पञ्च निग्रन्था:-बकुश-कुशील-पुलाक-निर्ग्रन्थ-स्नातकभेदात् । बकुशा द्विविधा उपकरण-देहभेदात् । ये वर्षे प्रत्यासत्तिमन्तरेणापि कदाचिद् वस्त्रादिकं धावति श्लक्ष्णाघशुकादि जिघृक्षन्ति, कदाचित्परिदधते, पात्रदण्डकाद्यपि घृष्टतेलादिम्रक्षणोत्पादित
For Private And Personal Use Only