________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किम्भूतान् ? कन्दर्पकक्षप्लुष:-कन्दर्प एव कक्ष-शुष्कतणं तं प्लुषन्ति-दहन्ति ये ते । पुनः किम्भूतान् ? सिद्धान्ताध्वनि-सिद्धान्तमार्ग तस्थुषः-स्थितवन्तः। शमयुषःउशपमयुक्तान् । पुनः किम्भूतान् ? सत्पूज्यतां-विवेकिपूज्यत्वं जग्मुषः-प्राप्तान् । पुनः विदुषा-दक्षान् । अथ कीदृशाः खलाः १ कृतदुष:-विहितदोषाः । पुनः किम्भूताः ? उद्यद्रुषः,उद्यन्-प्रकटीभवन् रुषः-रोषो येषां ते, एवम्भूता, गुणिषु द्वेषं वहन्त्येव ॥३१॥
देवीयत्युरुदोषिणः क्षतमहारोषानदेवीयति,
सर्वज्ञीयति मूर्खमुख्यनिवहं तत्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यग्पथीयत्यहो ?,
मिथ्यात्वाहिलो जनः स्वमगुणामण्यं कृतार्थीयति ॥ ३२ ॥ व्याख्या-देवी० ।। ' अहो ?' इत्याश्चर्ये मिथ्यात्वग्रहिलो जन:-मिथ्यात्वेन गर्गीभूतो लोका, एवं कुरुते, तत्राह-उरुदोषिणः-प्रवलदोषयुक्तान् देवीयति-देवतया मन्यते । अथ क्षतमहादोषान् , क्षताः-(वि)नाशिता महादोषा यैस्ते तान् वीतरागान् भ्रमत्वेन अदेवीयति-देवतया नाङ्गीकरोति, पुनः मूर्खमुख्यनिवहं-मूर्खप्रधानसमूह सर्वज्ञीयति-सर्वज्ञतया मन्यते, तत्वज्ञ-तत्त्वज्ञातारम् अज्ञीयति-अज्ञतया मन्यते । जैनमार्गमुन्मार्गीयति । पुनः अपथं-कुमागं सम्यक् पथयति-सुमार्गतया मन्यते । अगुणैरग्रण्य-निर्गणप्राधान्यं खम्-आत्मानं कृतार्थायति-गुणवत्तया मन्यते ॥ ३२ ॥
सङ्घनाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत,स्तन्मुद्राहढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुत्त्य कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,
सङ्घव्याघ्रवशस्य जन्तुहरिणब्रातस्य मोक्षः कुतः ? ॥ ३३ ॥ व्याख्या-सङ्घत्रा० ॥ जन्तुहरिणवातस्य, जन्तवः-प्राणिनो भव्यास्त एव हरिणः-मृगास्तेषां वात-समूहस्तस्य-भव्यजनमृगसमूहस्य मोक्षः-मुक्तिः कथमपि तु न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घव्याघ्रवशस्य, सङ्घ-हीनाचारिसमुदाय:, स एव व्याघ्रः-मृगारिस्तद्वशस्य-वशीभूतस्य । यथा व्याघ्र-वशस्य हरिणस्य मोक्षः-छुटनं न तथा कुसङ्घव्याघ्रवशस्य भव्यहरिणस्य मुक्तिगमनं न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घनाकृतचैत्यकूटपतितस्य, सङ्घस्य-लिङ्गिसमुदायस्य दानाय कृतानि सङ्घनाकृतानि यानि चैत्यानि-जिनभवनानि श्रावकैर्निर्माप्य लिङ्गिभ्यो दत्तानि, देये 'त्रा' प्रत्ययः,
For Private And Personal Use Only