________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
तत्राह - सावज्ञ - साहङ्कारम् अज्ञानिव - मूर्खानिय, इसति - अहो ! मद्वाक्येन गच्छति । एतत्तु कष्टतरं
।
न प्रवर्त्तकास्तान् । कथं हसति यथा अज्ञा हसन्ति तथा सोऽपि यत्तस्य मार्गदर्शनं तत्तु कष्टम् ॥ २९ ॥
सैषा हुण्डावसर्पिण्यनुसमयह सद्भव्यभावानुभावा, - त्रिंशश्चमोऽयं खखनखमितवर्ष स्थितिर्भस्मराशिः । अन्त्यं चाश्वर्यमेतज्जिन मतहतये तत्समा दुष्षमा चे - त्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ ३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सैषा० ॥ सा एषा - प्रत्यक्षा हुण्डावसर्पिणी- हुण्ड संस्थानेन सहिताSवसर्पिणी-1 - एतत्कालः । कथम्भूता १ अनुसमय सद्भव्य भावानुभावा, अनुसमर्थ-प्रतिसमयं इसन्तः - हीयमानाः भव्याः - प्रधानाः, भावा: - पदार्थास्तेषामनुभावः - प्रभावो यस्यां सा-अनुसमयहसद्भव्यभावानुभावा । च पुनः त्रिंशः - त्रिंशत्तमोऽयं भस्मराशि - रुमग्रहः- उत्कटग्रहः । कथम्भूतः ? एकराशौ खख नखमितवर्षंस्थितिः, खं खं - शून्यं शून्यं नखाः विंशतिस्तन्मित ( २००० ) वर्षस्थितिः - अङ्कानां वक्रगत्या द्विसहस्रवर्षस्थितिः । च- पुनः एतत् - प्रत्यक्षम् अन्त्यमाश्चर्यम् - असंगतपूजालक्षणं तत्समा-पूर्वोक्तत्रिवैरितुल्या, दुष्पमाकालभेदः, जिनमतहतये- जिन मतहानिकरणाय, इत्येवं चतुर्षु दुष्टेषु - शत्रुषु अनुकलं - निरन्तरं पुष्टेषु सत्सु अधुना जैनमार्गो दुर्लभः । एकस्यापि वैरिणः पोषे साधुवृद्धिर्न कथं चतुःशत्रुपोषे जैनमार्ग वृद्धिः ? ॥ ३० ॥
अथ गुणिद्वेषधीद्वारं दर्शयति
सम्यगुमार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः, श्रामण्यर्द्धिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः । सिद्धान्त ध्वनि तस्थुषः शमयुषः सत्पूज्यतां जग्मुषः,
सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यन्ति नोद्यदुषः ॥ ३१ ॥
व्याख्या - सम्यगू० ॥ खला-दु - दुर्जनाः चैत्यवासिनः सत्साधून् - शोभनाननगान् न क्षाम्यन्ति । कथम्भूतान् ? सम्यग्मार्गपुषः-शुद्ध मार्गपोषकान् । पुनः किं विशिष्टान् ? प्रशान्तवपुषः - प्रशान्तस्त्ररूपशरीरान् । पुनः कथम्भूतान् ? प्रीते उल्लसन्ती चक्षुषी येषां ते तान् । पुनः किम्भूतान् ? श्रामण्यर्द्धिचरित्र समृद्धिमुपेयुषः - प्राप्नुवन्तः । पुनः किम्भूतान् ? स्मयमुषः, स्मयम् - अहङ्कारं मुष्णन्तीति अहङ्कारतिरस्कारिणः पुनः
For Private And Personal Use Only