________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरोत्तीर्ण यद् भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत,
भ्रान्त्या लान्ति च हा ! दुरन्तदशमाश्चर्यस्य विस्फुर्जितम् ॥ २८ ॥ व्याख्या-यत्किञ्चि०॥ कुधियः-कुपण्डितास्तत्तत् वस्तुधर्मरूपतया ब्रुवति, तत्कि १ यत् किं तत्राह-य किंचित विधनं अलीकं श्रेणिकराजरजोहरणवंदनादि यदपि अनुचितं अयोग्यं पित्राद्युद्देशेन यात्राकरणादि अथवा जिनमंदिरे लकुडक्रीडादिअयोग्य, यत् लोकलोकोत्तरोत्तीर्ण-लोकलोकोत्तरमार्गत उत्तीर्ण बाह्यं सूतकगृहे भिक्षाग्रहणादिरजस्वलापूजा, हीनजातिभ्यः परमेष्ठिमन्त्रपाठनं दीक्षणं जैनेन्द्रप्रतिमाकारणं च, तथा यद् भविना-भव्यानां भवहेतुः-संसारहेतुः। एवं निश्चयेन जिनमन्दिरे जलक्रीडादि यत् शास्त्रस्य बाधाकरं-सिद्धान्तविरुद्धम् आधाकर्मभोजनादि । अथ श्रावणाधिक्ये पर्युषणाया अशीतितमेऽति विधानम् , इत्यादि धर्मतया प्ररूपयन्ति मूढाः-मूर्खास्तद् अर्ह. न्मत्तभ्रान्त्या-भगवन्मतभ्रमेण लान्ति-स्वीकुर्वन्ति शुक्तिशकले रजतवत् । 'हा' इति खेदे दुरन्तदशमाश्चर्यस्य-दुष्टासंयतपूजालक्षणस्य विस्फूर्जितं-विलसितं पश्यतेति ॥२८॥
कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुरावानं किलोत्कन्धरः । एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विद,
स्तद्वाक्याननुवर्त्तिनो हसति यत्सावज्ञमज्ञानि च ॥ २९ ।। व्याख्या--कष्टं० ॥ यस्मात्कारणात् किलेति सत्येन नृणां-मनुष्याणां जात्यन्धवैदेशिकः, जात्या-जन्मना अन्धः-नेत्रविकलः, स चासौ वैदेशिका-विदिशोत्पन्नः । एवम्भूतः कश्चित् कान्तारे-अटव्याम् अभीप्सितपुराध्यानम् , अभीप्सितस्य-इष्टस्य पुरस्य अध्वानं-मार्ग प्रदिशति दर्शयति तत्कष्टम् । कथम्भूतानां नृणां ? नष्टदिशादिङ्मूढानाम् । पुनः कथम्भूताम् ? अदृशां-दृष्टिविकलानामन्धा-नाम् कथम्भूतो जात्यन्धवैदेशिकः ? उत्कन्धरः-ऊधीकृतग्रीवः, यो मार्ग दर्शयति स ग्रीवामू/करोति । तु-पुनः एतत् कष्टतरम्-अतिशयेन कष्टं, तदाह-सोऽपि जात्यन्ध वैदेशिका यत्-यस्मात सुदृशः-सुनेत्रान् पुरुषान् हसति तत्कष्टतरम् । कथम्भूतान् सुदृशः ? सन्मार्गगान्-शोभनमार्गगमनशीलान् । पुनः कथम्भूतान् ? तद्विदः-शोभनमागेगमन ज्ञातन पुनः कथम्भूतान् ? तद्वाक्याननुवर्तिनः, तद्वाक्ये-जात्यन्धवाक्ये अनुवर्तिनः
For Private And Personal Use Only