________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योञ्चयः, सर्वव्यालकुलैः समस्तविधुराधि-व्याधि-दुष्टाहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां, दौरात्म्येन निजध्नुषां जिनपथं वाचैषसेत्यूचुषाम् अतः ॥ २६ ॥
व्याख्या-सर्वैः ॥ अमु-प्रसिद्धं चैत्यवासिविहितं दुर्मार्गम् आसेदुषां-सेव्य. मानानां मानसं-चित्तं नूनं-निश्चितं क्रूरम् अकारि-कृतम् । कैः क्रूरं कृतं ? तबाहसर्वैरुत्कटकालकूटपटलैः-अत्युग्रसद्योघातिविषसमूहैः, सर्वैः-समस्तैः अपुग्योश्चयैःपापराशिभिः । पुनः सर्वव्यालकुलैः-समस्ताशीविषसमूहैः । पुनः समस्तविधुराधिव्याधिदुष्टाहैः, सर्व विधुरं-कष्टम्, आधिः-मानसी पीडा, व्याधिः-रोगः दुष्टग्रहास्तैः । एतैः पुद्गलैमहादुष्टं तेषां मनः कृतम् । कथम्भूतानां तेषां ? दौरात्म्येन-दुष्टात्म्यत्वेन जिनपथ-जिनमार्ग निजस्नुखाम्-उच्छेत्तु कामानाम् । पुनःकिम्भूतानां ? वाचा-वाण्या 'एष यः स मार्गः' इत्यूषां-कथयितृणां दुर्मार्गमपि सुमार्गतया प्ररूपकाणामिति ।। 'अतः' इति भिनपदम्-अस्मात्कारणात् ॥ २६ ।।
तत्र कारणमाह
दुर्भेदस्फुरदुग्रकुग्रहतमःस्तोमास्तधी चक्षुषां, सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा, मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥ २७ ।।
व्याख्या-दुर्भेद० ॥ मिथ्याचारवतां मिथ्या-विपरीत आचारो येषां ते मिथ्याचारवंतस्तेषां हीनाचारिणां वांसि-वाक्यानि सकों-विद्वान् कर्णे कथं केन प्रकारेण कुरुते अपितु हीनाचारि धर्मोपदेशवाक्यमपि न श्रोतव्यं कथंभूतानां दुर्भेद० दुर्भदो-दुरुच्छेदः स्फुरन्-दीप्त उग्र-उत्कटो यः कुग्रहः-कदाग्रहः सएव तमस्तमोऽधकारपटलं तेन अस्तं आच्छादितं धीचक्षु-ज्ञानलोचनं येषां ते । पुनः कथंभूतानां सिद्धांतद्विषतां-सिद्धांतवैरिणां पुनः कथं भूतानां निरंतरमहामोहान्-निरंतरमहामोहनीयकर्मणः सकाशात् अहंमानिनां-अभिमानवतां पुनः किं स्वयमात्मनानष्टानां-भ्रष्टानां पुनः कथंभूतानां सदा अन्य नाशनकृतैऽन्यभ्रंशकराय बद्धोद्यमानां-कृतोद्यमानां स्वयं नष्टोऽन्यानाशयति इति अतएव तेषां वचो न श्रोतव्यमिति ॥ २७ ॥
For Private And Personal Use Only