________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सारम्भाः सपरिग्रहाः सविषयाः सेाः सकाङ्क्षाः सदा, साधुव्याजविटा अहो ! सितपटाः कष्टं चरन्ति व्रतम् ॥ २४ ॥
व्याख्या-देवा० ॥ अहो ! इति आश्चर्ये सितपटा:-श्वेताम्बराः व्रतं कष्टंदुःखतया चरन्ति-समाचरन्ति । किम्भूताः १ मठे-स्वस्थाने नित्यस्था:-नित्यवासिनः। कथम्भूते मठे ? देवार्थव्ययतः-देवद्रव्यव्ययाद् यथारुचिकृते-स्वेच्छया विरचिते, ते स्वेच्छाचारिणो देवद्रव्यं स्वस्थानेषु लगयन्ति । पुनः कथम्भूते ? सर्वरि रम्ये-अनेकजालिकागवाक्षादिकरणे षडूरितुमनोहरे । पुनः किम्भूतास्ते ? शुचयः-पवित्रा याः पट्टतूल्यो-हंसरुतादिमयाः शय्याविशेषास्तत्र शयनाः । पुनः किम्भूताः ? सद्गन्दिका द्यासना-प्रधानगन्दिकाद्यासनाः, आदिशब्दान्मसूरकादिग्रहः । पुनः किम्भूताः ? सारम्भा:-आरम्भसहिताः । पुनः किम्भूताः ? सपरिग्रहा:-परिग्रहेण सहिता, पुन: किम्भूताः ? सविषयाः विषयः पञ्चप्रकारस्तेन सहिताः । पुनः सेाः, सहईयया वर्तत इति सेाः । पुनः किम्भूताः सदा-निरन्तरं सकाङ्क्षाः, सहकासया-द्रव्यादिवाञ्छया वर्त्तते ये ते सकासाः । पुनः साधुव्याजेन-साधुच्छलेन विटा:-लम्पटा इव, दुराचारदर्शनेन तेषां निन्दनम् ॥ २४ ॥
इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति, श्रुत्वाऽन्येऽभिमुखा अपि श्रुतपथाद् वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं, येषां ते ननु सर्वथाजिनपथप्रत्यर्थिनोऽमी ततः ॥ २५ ॥
व्याख्या-इत्या०॥ लोका:-परतीथिकादयः स्थिति-हीनाचारिसामाचारी प्रेक्ष्य-विलोक्य इत्यायुद्धतसोपहासक्चसः, इत्यादिपूर्वोक्तविटादिप्रकारेण उद्धतानिउत्कटानि सोपहासानि-हास्यसहितानि वचांसि येषां ते, एवंविधाः स्युः-भवेयुः, हास्यं कुर्वन्तीत्यर्थः । जन्ये केचन तेषामाचारं श्रुत्वा अभिमुखाः-सन्मुखा वाऽपि श्रुतपथात्सिद्धान्तमार्गात् वैमुख्य-पराङमुखत्वम् आतन्वते-भजन्ते । येषां हीनाचारिणां मिथ्यो. कृत्या-मिथ्याभाषणेन अहो! अमी अन्यथावादिनोऽन्यथाकारिणः, इतिरूपेण सुदृशोऽपिसम्यग्दृशोऽपि पुरुषाः मनःसन्देहदोलाचलं विभ्रति-धारयन्ति, सन्देह एवं दोला तया चलम् , 'इदं सत्यमिदं वा सत्य'-मिति सन्देहास्पदे मनः स्यात् , ननु-निश्चितं तेऽमीचैत्यवासिनः तत:-तस्मात्सर्वथा जिनमतप्रत्यर्थिन:-जिनमतवैरिणः ॥ २५ ॥
For Private And Personal Use Only