________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वाकृत्यकृतोऽपि कष्टमधुनान्त्याश्चर्यराजाश्रिताः,
स्थित्वा सन्मुनिमूर्द्धसूद्वतधियस्तुष्यन्ति पुष्यन्ति च ॥ २२ ॥ व्याख्या-सर्व०॥ अहो ! कष्टं एवंविधा हीनाचारिणोऽधुना सन्मुनिमूर्धसु-सत्साधुमस्तकेषु स्थित्वा तुष्यन्ति-तोपं प्राप्नुवन्ति, च पुनः पुष्यन्ति-वर्द्धन्ते । कथम्भूताः (हीनाचारिणः )? सर्वत्र अस्थगितात्रवा:-अनाच्छादितास्रवाः । पुनः किम्भूताः ? स्वविषयेषु-आत्मात्मविषयेषु व्यासक्तानि-व्यापारितानि सर्वेन्द्रियाणि-स्पर्शनादीनि यस्तैः । पुनः किम्भूताः ? वलगन्तः-उच्छलन्तः गौरवैः शातादिभिः चण्डा-रौद्रा दण्डा-मनोदण्डादिकास्तुरगा येषां ते दण्डानां चपलत्वात्तुरगोपमानम् । पुनः कथम्भूताः १ पुष्यत्कषायोरगाः, पुष्यन्तः-प्रवर्धमानाः कषायोरगा:-कषायसा येषां ते । पुनः किम्भूताः ? सर्वाकृत्य कृत्योऽपि-सर्वाकार्यकारका अपि । पुनः किम्भूताः ? अन्त्याश्चर्य राजाश्रिताः, अन्त्यमाश्चर्यम्-असंयतपूजालक्षणं तदेव राजा तदाश्रिताः । पुनः किम्भूताः ? उद्धतधियः-उत्कटवुद्धयः ॥ २२ ॥
सर्वारम्भपरिग्रहस्य गृहिणोऽप्येकाशनाघेकदा, प्रत्याख्याय न रक्षितो हृदि भवेत्तीप्रोऽनुतापस्तदा । षट्कृत्वत्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये,
तेषां तु क तपः क सत्यवचनं क ज्ञानिता क व्रतम् ? ॥ २३ ॥ व्याख्या-सर्वा० ।। सर्वारम्भपरिग्रहस्य-सकलसावधव्यापारधनधान्यादिसङ्घ हतत्परस्य गृहिणोऽपि-गृहस्थस्य एकाशनादि-एकवारमशनं यत्तत् एकाशनं तदादिर्यस्य तत् एकाशनादि, आदिशब्दात् निर्विकृतिकादि प्रत्याख्यातम् एकदा-पर्वोदिदिवसे प्रत्याख्याय-कृत्वा कदाचिद् विस्मरणेन न रक्षितस्तस्य रक्षणं न कृतं चेद् भङ्गः स्यात्तदा हृदि तीव्रोऽनुतापः-पश्चात्तापो भवेत्-'अहो ! मया मन्दभाग्येन प्रत्याख्यानं भनम् ' । ये हीनाचारिणः षट्कृत्व:-पड्वारान् त्रिवारं-सन्ध्याप्रतिक्रमणे त्रिवारं प्रातः प्रतिक्रमणे इति त्रिविधं, त्रिधा-मनोवाकायै:-करणकारणानुमतिवर्जनेनेति, अनुदिनंनिरन्तरं प्रोच्य-मुखे उच्चार्यापि भजन्ति तेषां तपः क ?, सत्यवचनं क १, ज्ञानिता क?, व्रतं क ? अपि तु न कथञ्चित् ।। २३ ॥
देवार्थव्ययतो यथारुचिकृते सर्व रम्ये मठे, नित्यस्थाः शुचिपट्टतूलशयनाः सद्गब्दिकाद्यासनाः ।
For Private And Personal Use Only