________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भोजनमिव, यथा विषलवप्रवेशेण वरभोजन-प्रधानं भोजनमपि अनिष्टकारि तथा विधिधर्मकृत्यमपि कुमतिकुगुर्वादिदेशनामिश्रितं संसारकारणमिति ॥ २० ॥
आक्रष्टुं मुग्ध-मीनान् बडिशपिशितवद्विम्बमादय जैनं, तन्नाम्ना रम्यरूपानपवर-कमठान् स्वेष्टसिद्ध्यै विधाप्य । यात्रा-स्नात्राद्युपायैर्नमस्तिक-निशाजागरादिच्छलश्च, श्रद्धालु म जैनश्चलित इव शर्वश्चयते हा ! जनोऽयम् ॥ २१ ।।
व्याख्या-आक्रष्टुं० ॥ नाम जैन:-नाममात्रेण जैना नामजैनास्तै:-लिङ्गधारिभिः 'हा' इति खेदे अयं श्रद्धालुर्जन:-श्रावकजनो वश्चयते-परामुस्याते । कथम्भूत. मिजैनः १ शठैः-धृतः । कथम्भूतः श्रद्धालुः ? छलित इव-व्यन्तराधिष्ठित इव ग्रथिल इव । छलनप्रकारमाह-मुग्धमीनान्-मूर्खमत्स्यान् आक्रष्टुं-आकर्षितुं बडिशपिशितवत्बडिशं-मत्स्यग्रहणाय लोहकण्टकं, तत्रपिशितं-मांसबोटकं तद्वत् जैनं बिम्ब-जिनप्रतिमां आदर्य-दर्शयित्वा, यथा, मांसखण्डेन मत्स्या वशीक्रियन्ते तथा मुग्धप्रतारणाय तैरपि जैनविम्बं दर्शितम् । ननु जिनविम्बस्य कथं बडिशपिशितोपमा ? उच्यते-अविधिप्ररूपितस्य हीनाचारिप्रतिष्ठितस्य युक्तैव न तु विधिप्रतिष्ठितस्य । पुनः किं कृत्वा ? तन्नाम्ना-जिननाम्ना रम्यरूपान्-मनोहरस्वरूपान् अपवरकमठान् , अपवरका:-अन्तनिलया मठा:-स्थानविशेषास्तान् विधाप्य-काराप्य, कस्यै ? स्वेष्टसिद्ध्यै-स्वस्येष्टसाध. नाय, 'अस्माकमिष्टं भविष्यता'-मिति मिषेण भगवद्भाण्डागारमठादिनिर्मापणं कारयन्ति । ते पुनः कैः श्राद्धान् छलन्ति ? यात्रास्नानाद्युपायैः, यात्रा-पूर्वजााद्देशेन जिनगृहे यात्रा स्नानं च कर्तव्यम् , आदिशब्दात् श्रुतानुक्तपर्वग्रहः, एवंप्रकार उपाय:मिषः, तैः । पुनः नमसितकनिशाजागरादिच्छलैश्च, नमसितकजिनादीन् उद्दिश्य द्रव्ये सितत्वकरणम् उपद्रवनिवृत्तये इयद् द्रव्यं व्ययामीति नियमाकरणं निशाजागरो-रात्रिजागरणम् आदिशब्दात् शान्तिकपौष्टिकादिग्रहः, एतच्छलैश्च-एतत्प्रकारं दर्शयित्वा जनान् वश्चयन्ति । अनेन काव्येन अविधिजिनविम्बयात्रास्नात्रनमसितकनिशाजागरणं निषिद्ध, विधिना तु सर्व कर्तव्यं, तत्कर्त्तव्यस्य सप्तमकाव्ये विंशतितमकाव्ये पूर्वोक्ते स्थापितत्वादिति ॥ २१ ॥
सर्वत्रास्थगितानवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः ।
For Private And Personal Use Only