________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवल्लभगरिणविनिमितम्
शोष्ठिनो महः उपमेयः, सूर्यस्य महः उपमानम् । श्रेष्ठिनो महस्य यथा सन्महीना निराकरणीयास्तथा सूर्यस्य तेजसो निशाकरोग्रग्रहतारकादयो निराकरणीयाः । कथम्भूतो महः ? समहः-सोत्सवः । प्रत्र महशब्दो प्रकारान्तो देववत् । 'महावुत्सवतेजसी' इत्यनेकार्थः । पुनः क० ? महीयान् ।।२।।
[इति ] साइयात्रेष्ठिवर्णनम् । नाकू इति ख्यातसुनामधेया, पत्नी तदीया शुभभागधेया । बभूव सा भूवलये गुणाग्रा, यद्पतोऽन्या महिला हि विनाः ॥२६॥
इति ] साइयाश्रेष्ठिनाकूस्त्रीवर्णनम् ।। सांसारिकानेकन भोग्यभोगान्, काम्यान्निकामं खलु भुञ्जमाना । प्रोत्तुङ्गकार्य जनमाननीयं, याऽसूत योग्याह्वयमङ्गजं सा' ॥२७॥ ततो व्यतीते कियति क्षणे सा', पुनहितीयं तनयं सुसाव । नाथाभिधानं जनपूजनीयं, चन्द्रं द्वितीयेव तिथि: कलाढयम् ॥२८॥ नवनवैश्चारुतरः सुसिद्ध-मनोरथैः पुण्यत एव पित्रोः । यथाक्रमं तो ववृधात उत्का-वधीयतुश्च व्यवसायविद्याः ॥२६॥ कन्ये उपायंस्त तत: क्रमेण, भ्रातृद्वयं द्रव्यचयं व्ययित्वा । महोत्सवांश्च प्रचुरान् विरच्य, प्रायो हि धर्मो गृहिणां विवाहः ॥३०॥
[इति ] योगिनाथयोरेकत्र वर्णनम् । लक्ष्मीः पयोधि परिहाय पूर्व, कालं कियन्तं त्रिदिवे निवस्य । सुखान्यलब्ध्वा च जगभ्रमन्तो, ययोः शरण्यं शरणं विवेश ॥३१॥ तत्र स्थितैधिष्ट च शिष्टरूपाऽस्पद्धिष्ट नो दुष्टतराऽपि बुद्धेः । सापत्न्यतोऽपीति विचित्रमेतत्, रराजतुः प्रोतसहोदरौ तौ ।।३२॥
युग्मम्
___ व्या०-तो योगिनाथाख्यौ प्रीत सहोदरी-प्रीतिमद्भातरौ रराजतुः-दिदीपाते। तो को ? ययोः शरण्यं-शरणयोग्यं शरणं-गृह लक्ष्मी: विवेश-प्राविशत् । कथम्भूता
१. नाकूः। २. नाकूः।
For Private And Personal Use Only