________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संघपति रूपजी वंश - प्रशस्तिः
सती ? जगद्भ्रमन्ती सती। किं कृत्वा ? पूर्वं पयोधि परिहाय कियन्तं कालं त्रिदिवे - स्वर्गे निवस्य - उषित्वा च पुनः सुखानि अलब्ध्वा - स्वर्गे सौख्यानि अलब्ध्वेत्यर्थः । च पुनः तत्र योगिनाथयोगृहे स्थिता ऐधिष्ट-प्रवर्द्धत । कथम्भूता ? शिष्टरूपा । काकाक्षिगोलकन्यायेन चकारस्य पुनर्ग्रहणात् च पुनः सापल्यतोऽपि - सपत्नोभावादपि बुद्ध ेर्नो प्रस्पर्द्धिष्ट धर्मबुद्धया सह स्पर्द्धा न श्रकरोत् इत्येतत् विचित्र-विशिष्टमाश्चर्यम् । कथम्भूता ? दुष्टनरा । अपीति सम्भावनायाम्
१५
।।३१-३२॥
शास्त्रेष्विति श्रूयत एतदिष्टं पुनाति गङ्गाहृदिनी जनौघान् । कृताप्लवान् सम्प्रति पापनाशात्, श्री योगिनाथौ पुपुवात इभ्यौ ॥ ३३॥
1
व्या० - शास्त्रषु एतदिष्टं इति श्रूयते । इतीति किम् ? गङ्गाह्रदिनी गङ्गानाम्नी नदी जनौघान् पुनाति सम्प्रति श्रीयोगिनाथो इभ्यो जनौघान् पुपुवाते
पुनाताम् । 'पूगूश पवने' क्रयादिरुभयपदी । कथम्भूतान् ? कृताऽऽप्लवान् -कृतस्नान । द्वितीयपक्षे कृतः - विहितश्चरणयोराप्लवः प्राप्तिरर्थात् स्पर्शो यैस्ते तथा तान् । अत्र शाकपार्थिवादिवत् मध्यपदलोपी समासः, सति च तस्मिन् चरणशब्दस्य लोपः । कस्मात् ? पापनाशात्, गङ्गास्नानात् पापनाश: ग्रात्मशुद्धिश्च । तद्वयं यो गनाथयोश्चरणस्पर्शादिवेति भावः ||३३|०
श्रथैतयोः पृथक्-पृथग्वर्णनम्
अलब्धलाभो मुनिसङ्गतिश्च ध्यानं जिनादेः स्वहिताय शश्वत् । रसायनानि प्रवरीषधानि द्रव्याणि यत्सन्ति परोपकृत्ये ॥ ३४॥ योगीति नाम प्रवरं यथार्थ - मित्रन्तमानन्दकरं नराणाम् । एतान् षडर्थानिह योगशब्दे, विज्ञाय विज्ञाः कथयाम्बभूवुः
॥ ३५॥
युग्मम्
व्या०—प्रलब्धलाभः १, सङ्गति: २, ध्यानं ३, रसायनं ४, श्रौषध ५, द्रव्यं ६. एते षट् योगशब्दस्यार्थाः । एषां योगात् योगी ।
सन्मार्गणाऽऽलिभ्य इव द्विपो यो, दानं ददानोऽप्रियताऽऽदरेण । रात्रिदिवं पूरितमानवाशः, सोडलं चकाराऽवनिमेव योगी ॥ ३६ ॥ शुभाऽमृताऽऽदित्य सुयोगयुक्तः सहस्रशो घस्र इवेहितार्थान् । चकार चाऽरं स तिरश्चकार, प्रायोऽर्थिनां दुर्विधतां क्षणेन ॥ ३७॥
,
For Private And Personal Use Only