________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संघपति रूपजी - वंश- प्रशस्तिः
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
- तस्य - राजाभिधेयस्य प्रवरा रत्नादिदेवी पत्नी प्रभवत् प्रासीत् । कथम्भूता ? प्रेमरसस्य पात्र - भाजनम् । पुनः कथम्भूता ? हर्षदा । कस्य ? केव ? मयूरस्य मेघघटेव, यथा मयूरस्य मेघघटा शश्वत् हर्षदिपात्री तथा राजाभिधस्य श्रेष्ठिनः हर्ष कर्त्री इत्यर्थः । कथम्भूता ? नव्या जनाभिरामा ||२०|
,
[ इति । राजाथष्ठितो रत्नदेवीवर्णनम् ।
२
प्रख्यात सार्वत्रिक सत्समाख्यः, पुत्रः स तस्याऽजनि साइयाख्यः । यः प्राड्विवाकोऽद्य शिरोवतंसस्ततंस पुंसां स्वगुणेन हंसः ॥२१॥ समस्तलोकं न तृणाय' साक्षाद्, यो मन्यतेऽनन्यनूनव्यपुण्यैः । स्वीयैरमेयैः कविवर्णनीयं यशश्चयैश्चाऽव * स साइयाख्यः ॥ २२॥ दानान्यनेकानि लसत्तपांसि श्राद्धव्रतानामवनं च शश्वत् । समाचचार व्यवहारसारः, स तत्त्वभुद्भरतिसेवितांह्निः ॥२३॥ सुदानशौण्डा अनु साइयाख्यं वसुन्धरायां व्यवहारिमुख्यम् । धर्मैकनिष्ठा नृपतिप्रतिष्ठा, गुणैर्गरिष्ठा विबभुमंहिष्ठाः ॥ २४ ॥ .
,
१३
व्या०
० - वसुन्धरायां व्यवहारिमुख्यं साइयाख्यं अनु सुदानशौण्डा : विबभुः । कोऽर्थः ? साइयानाम्नः श्रेष्ठिनो होना रेजुरित्यर्थः । एवं धर्मैकनिष्ठाः नृपप्रतिष्ठाः गुर्णर्गरिष्ठाः महिष्ठा: साइयाख्य ग्रनु विबभु: - हीना रेजुरित्यर्थः । उत्कृष्टेऽनूपेन इत्युत्कृष्टेऽर्थे, अनु इति श्रव्यययोगे । साइयाख्यमित्यत्र द्वितीया
||२४||
यस्योदितांशोरिव सर्वकालं, महो ममहे समहो महीयान् । न महयामास च सन्महीनान् निशाकरोग्रग्रहतारकादीन् ||२५||
3
व्या०—-यस्य-साइयाख्यस्य महः - तेजः सर्वकालं ममहे - ववृधे च पुनः सन्महोनान् - उत्तममहीपालान् न मंहयामास न दीपयामास, साइयाख्यश्रेष्ठिनः तेजसः राज्ञां तेजो न किञ्चिदित्यर्थः । 'महुड् वृद्धी' भ्वादिशत्मनेपदी, 'महुण् भासार्थः’ चुरादि: परस्मैपदी | यस्य कस्येव ? उदितांशोरिव उदयं प्राप्तस्य सूर्यस्य इव, यथा सूर्यस्य तेजः सर्वकालं वर्द्धते च पुनः निशाकरोग्रग्रहतारकादीन् न दीपयति तथा साइयाख्यश्रेष्ठिनस्तेजोऽपि । श्रत्र साइयाख्यः श्र ेष्ठी उपमेयः, उदितांशु रुपमानं '
१. तृणादपि निकृष्टं मन्यते इत्यर्थः । २. दिदीपे । ३. साइयाश्रेष्ठी ।
For Private And Personal Use Only