SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमकथा । AAN ~ - ~ ~ vvvvvvvvm तथा चोक्तम् "दिग्गजकूर्मकुलाचलफणपतिविधृतापि चलति वसुधेयम् । प्रतिपनममलमनसां न चलति पुंसां युगान्तेपि ॥" यदि पुन्युपरि कोपं करोमि तर्हि सा मर्मज्ञा । अन्यत् किञ्चिन्निधानादिकं कथयिष्यति । तथा चोक्तम् "सूपकार कविं वैयं वन्दिनं शस्त्रधारिणम् । स्वामिनं धनिनं मूर्ख मर्मज्ञं न प्रकोपयेत् ॥" इत्येवं विचार्य समुद्रदत्तस्य द्वौ घोटकौ कमलश्रीश्च दत्ता । शुभमुहूर्ते विवाहः संजातः । कतिपयदिनानन्तरमशोकेन समुद्रदत्तस्य यथायोग्यं निरूपितं । मित्रैः सह समुद्रदत्तः स्वदेशे चलितः । ततः पूर्वमशोकेन नाविकः संकेतितः-रे नौवाहक, अस्य समुद्रदत्तस्य समुद्रोत्तरणार्थ घोटकद्वयं याचय । धीवरेणोक्त-मघटितं मया कथं लभ्यते । तथा चोक्तम्___“किषणाण धणं णाया णागाणं मणि केसराइं सीहाणं । कुलबालियाण थणया कित्ति धणं खु मणुयाणं ॥" अशोकेनोक्तं-किं बहुनोक्तेन याचय । तेनोक्तं–तथास्तु । ततोऽशोको निजपुत्र्याः शिक्षां दत्वां व्याघुट्य स्वगृहमागतः । समुद्रदत्तः सहायादिभिः सह समुद्रतीरे गतः । समुद्रः कीदृशो, लोलत् कल्लोलमाल: फेनचन्द्राभोयं कल्पान्तकेलिकलितजलधरनक्रचक्रप्रवाल ईदृक्समुद्रः । कैवर्तकेन जलतारणमूल्येन घोटकद्वयं याचितं । कुपितेन समुद्रदत्तेनोक्तं रे नीच, निःशंकितं युक्तं विहाय स्फुटित For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy