SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमकथा। तदुक्तम् "नेता यत्र बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः __ स्वर्गो दुर्गमनुग्रहः खलु हरेरावणो वारणः । इत्याश्चर्यबलान्वितोपि बलभिद् भग्नः परैः संगरे ___ तद्युक्तं ननु दैवमेव शरणं धिक् धिक् वृथा पौरुषम् ॥" भगदत्तो जितारिपृष्ठे लग्नः । मंत्रिणा निषिद्धः । तदुक्तं “ भीरुः पलायमानोपि नान्वेष्टव्यो बलीयसा । कदाचिच्छूरतां याति मरणे कृतनिश्चयः ॥" एतज्जनव्यतिकरं श्रुत्वा दृष्ट्वा च मुंडिका जिनदेवं हृदि स्मृत्वा प्रत्याख्यानं कृत्वा परमेष्ठिमंत्रमुच्चार्य कूपे पतिता । सम्यक्त्वप्रभावाजलं स्थलं जातम् । तस्योपरि रत्नगृहं । तन्मध्ये सिंहासनं । तस्योपरि निविष्टा सीतावत् स्थिता सा मुंडिका । देवैः पञ्चाश्चर्य कृतम् । इतो भगदत्तेन राज्ञा प्रतोली विदार्य सर्वमपि पुरं लुटितुमारेभे । यावज्जितारिमन्दिरे भगदत्तः प्रविशति तावद् देवतया स्तंभितः । तस्मिन् प्रस्तावे केनचित् पुरुषेण भगदत्तमण्डलेश्वरस्याग्रे मुंडिकावृतान्तो विहितः । तच्छ्रुत्वा प्रत्यक्षेण दृष्ट्वा मदवर्जितो भूत्वा विनयपूर्व मुंडिकायाः पादयोः पतितः भगदत्त उक्तवांश्च-भो भगिनि, यन्मया कृतं तदज्ञानतया, तत् सर्व सहनीयमित्यादि निरूप्य धर्मद्वारं गत्वा जितारिरप्याकारितः । आगतस्य तस्याने तथैवोक्तवान् । ततो For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy