________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
सम्यक्त्वकौमुद्यां
मुनिदानफलेन रत्नवृष्टिः, कुसम वृष्टिः, सुगंधिवायु - देवदुन्दुभिः, साधुवादश्चेति पञ्चाश्चर्य तन्नगरे देवैः कृतम् । तदनन्तरं मिध्यादृष्टिब्राह्मणैभणितं राज्ञोग्रे - हे राजन्, बहुसुवर्णयज्ञफलमेतत् । राजा संतुष्टो जातः । यदा ते ब्राह्मणा रत्नानि गृह्णन्ति, तदाङ्गाराणि भवन्ति तानि । ततः केनचिद्भणितं - भो भूपते, बहुसुवर्णयज्ञफलं नैतत् । किं तर्हि ? विश्वभूतिब्राह्मणेन मुनिदत्ता हारदानफलमेतत् । मुनिदानमाहात्म्यं ज्ञात्वा लघुकर्मणा सोमप्रभराज्ञा मनसि भणितं - सत्यमेतत् ये शुद्धभावना संयुक्तास्त एव दानयोग्या भवन्ति, न पुनरार्तरौद्रध्यानपरायणा गृहिणस्तेषां शुभभावनाभावात् । तथा चोक्तम्
" नो शीलं परिपालयन्ति गृहिणस्तप्तुं तपो न क्षमा आर्तध्याननिराकृतोज्ज्वलधियां तेषां न सद्भावना |
तथा चोक्तम्-
"
इत्येवं निपुणेन हन्त मनसा सम्यङ्मया निश्वितं नोत्तारो भवकूपतोस्ति सुदृढो दानावलम्बात्परः ॥ अत एव मुनीनां दानं दातव्यं, मुक्तेः कारणं त एव भवन्ति न
गृहिणः ।
66
सन्तः सर्वसुरासुरेन्द्रमहितं मुक्तेः परं कारणं रत्नानां दधति त्रयं त्रिभुवनप्रद्योतिकाये सति ।
वृत्तिस्तस्य यदुन्नतः परमया भक्तार्पिताज्जायते तेषां सद्गृहमेधिनां गुणवतां धर्मो न कस्य प्रियः ।। " तदनन्तरं करौ कुड्मली कृत्य विश्वभूतिद्विजं प्रति राजा भणति - भो
For Private And Personal Use Only