________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकथा । विश्वभूते, मुनिदत्ताहारदानफलं ममार्द्ध प्रयच्छ । मया बहु सुवर्णयज्ञफलार्द्ध दीयते । विश्वभूतिनामाणि-भो भूपते, दारिद्रयपीडितोपिसत्पुरुषो नीति परित्यज्यान्यथा करोति किं ? अत एव स्वर्गापवर्गसाधकमाहाराभयभैषजशास्त्रमिति दानचतुष्टयं द्रविणार्थं न विक्रीयते। .. ततो मुनिनाथसमीपे गत्वा राज्ञाऽभाणि-भो भगवन्, दानचतुष्टयं गृहिणा किमर्थं दीयते ? यतिनोक्तं हे देव, आहारदान देहस्थित्यर्थ दीयतेऽत एवाहारदानं मुख्यम् । येनाहारदानं दत्तं तेन सर्वाणि दानानि दत्तानि । तथा चोक्तम्--
" तुरगशतसहस्रं गोकुलं भूमिदानं
कनकरजतपावं मेदिनी सागरान्ता। सुरयुवतिसमानं कोटिकन्यापदानं
न हि भवति समानं अन्नदानात्पधानात् ॥" औषधदानमपि दातव्यं येन रोगविच्छित्तिर्भवति । तदौषधदानं रोगे विनाशे तपो जपं संयमं च करोति, पुनः कर्मक्षयं कृत्वा मोक्षं च गच्छति । तपस्विने तेन कारणेनौषधदानं दातव्यम् । तथा चोक्तम्---
" रोगिणो भेषजं देयं रोगो देहविनाशकः ।
देहनाशे कुतो ज्ञानं ज्ञानाभावे न निवृतिः॥" रेवतीश्राविकया श्रीवीरस्यौषधदानं दत्तम् । तेनौषधदानफलेन तीर्थकरनामकर्मोपार्जितमत एवौषधदानमपि दातव्यं । य एक जीवं रक्षति स सर्वदा निर्भयो भवति किं पुनः सर्वान् ।
For Private And Personal Use Only