________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकथा।
" यत्सकृत्सेवते भोगः स भागो भोजनादिकः।
भूषादिः परिभोगः स्यात्पौनःपुन्येन सेवनात् ।। " पुनश्च यमनियमौ---
“ यमश्च नियमश्चेति दे त्याज्ये वस्तुनि स्मृते ।
यावज्जीवं यमो ज्ञेयः सावधिनियमः स्मृतः ॥” एकस्मिन्दिने तेन विश्वभूतिना खलु धान्यस्थानं गत्वा कपोतवृत्त्या यवा आनीता । पिष्टा च तच्चूर्णस्य जलेन सह पिण्डचतुष्टयं बद्ध,-मेकेन पिण्डेनाग्निहोत्रं कृतवान् । द्वितीयं पिण्डं स्वभोजनार्थ धृतं । तृतीयं पिण्डं स्वभार्याभोजननिमित्तं घृतं । चतुर्थपिण्डमतिथिभोजननिमित्तं धृतम् । एवं विश्वभूतेः कालो गच्छति । तथा चोक्तम्---
“ देयं स्तोकादपि स्तोकं न व्यपेक्षा महोदये । ___ इच्छानुकारिणी शक्तिः कदा कस्य भविष्यति ॥"
एकस्मिन् दिने विश्वभूतिगृहे पिहिताश्रवमुनिश्चर्यार्थमागतः । परमानन्देन यथोक्त्यागमविधिना तेन विश्वभूतिना प्रतिष्ठापितः । अतिथिनिमित्तं धृतं पिण्डं शोधितम् । स्वनिमित्तं धृतमपि पिण्डं शोधितं । तदनंतरं भार्यामुखमवलोकितं द्विजेन । तयोक्तं-धन्याहं तव प्रसादेन । ममापि चटितं मदीयं पिण्डं शोधय । तेन तदपि शोधितम् । तथा चोक्तम्
वश्या सुता वृत्तिकरी च विद्या नीरोगता सज्जनसंगतिश्च । इष्टा च भार्या वशवर्तिनी च दुःखस्य मूलोद्धरणानि पञ्च ॥ ततो मुनेर्निरन्तराय आहारोजनि । शुद्धा भिक्षा जाता । ततो
For Private And Personal Use Only