________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
वैष्णवधर्मे यानि दानानि प्रतिपादितानि, तानि सर्वाण्यपि दीक्षिताग्निहोतृश्रोत्रियत्रिपटिकशासनधर्मकथकभागवत्तपस्विवन्दकयोगीन्द्रादानामनेकधा दत्तानि । तथा चोक्तम्
"कनकाश्वीतला नागो रथो दासी मही गृहम् । ___ कन्या च कपिलाधेनुर्महादानानि वै दश ॥" . परं तद्दानफलातिशयः कोपि न दृष्टो मया । इत्येवं मनसि निश्चित्यापराह्नसमय उपवने गत्वा विधिपूर्वेण भट्टारकं वन्दित्वा भट्टारकः पृष्टः- भो भगवन् , दीक्षितादिदत्तदानफलातिशयः कोपि न दृष्टो मया । भगवानाह-भो सचिव, ते कुपात्रा आर्तरौद्रध्यानयुक्ताः। तेषां दानानि देयानि न भवन्ति । योऽतिथिरात्मानं यजमानं च तारयति तस्य दानं दातव्यम् । तथा चोक्तम्
"अवद्यमुक्त पथि यः प्रवर्तते
प्रवर्तयत्यन्यजनश्च निस्पृहः । स एव सेव्यः स्वहितेच्छुना गुरुः
स्वयं तरन्तारयितुं क्षमः परम् ॥" अन्यच्च
" दान दातव्यं शीलवद्भ्यः प्रणम्य . ज्ञानं ज्ञातव्यं बन्धमोक्षपदर्शि । देवाः संसेव्या द्वेषरागाहीणाः स्वर्ग मोक्षं गन्तुकामेन पुंसा ॥"
For Private And Personal Use Only