________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकथा ।
" क्षेत्रं वास्तु धनं धान्यं द्विपदश्च चतुष्पदम् । यानशय्यासनं कुप्यं भाण्डञ्चेति चतुर्दश ॥ मिथ्यात्वं वेदहास्यादिषट्कषायचतुष्टयम् । रागद्देषौ च संगाः स्युरन्तरङ्गाश्चतुदर्श ॥ मिच्छत्तं वेयतिगं हासाई छक्कयं च णायव्वम् ।
कोहाईण चतुकं चउदस अभंतरा गंथा॥" प्रतिज्ञानन्तरमेवं गुणविशिष्टं समाधिगुप्तभट्टारकं चर्यार्थमागतं दृष्ट्वा लघुकर्मणा श्रद्धादिसप्तगुणसमन्वितेन, नवविधविधानयुक्तेन मंत्रिणा, मुनिप्रतिलाभतो मुनि प्रतिष्ठाप्य चर्या कारिता । उक्तञ्च
" श्रद्धा शक्तिरलोभित्वं दया भक्तिः क्षमा तथा ।
विज्ञानञ्चेति सप्तैते दातुः सप्तगुणा मताः॥" पुनश्च---
" पडिगहमुच्चहाणं, पादोदयमच्चणं हु पणमं च।
मनवयणकायसुद्धी, एसणसुद्धी हु णवविहं पुण्णं ॥" मंत्री वदत्यद्याहं धन्यो जातः ।मयाद्य तीर्थकरो दृष्टः पूजितश्च । तथा चोक्तम्" सम्पत्यस्ति न केवली कलियुगे त्रैलोक्यरक्षामणिः
तवाचः परमाश्चरन्ति भरतक्षेत्रे जगद्योतिकाः सदरत्नत्रयधारिणो यतिवरास्तासां समालम्बनं . तत्पूज्या जिनवाक्यपूजनतया साक्षाजिनः पूजितः ॥" मंत्रिमान्दिरे मुनिदानफलेनामरविरचितानि पंचाश्चर्याणि जातानि। भट्टारकदत्ताहारदानफलातिशयं दृष्ट्वा मंत्री स्वमनसि वदति-अहो,
For Private And Personal Use Only