SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व कौमुद्यां . भरतक्षेत्रे वच्छ वत्स ) देशे कौशाम्बी पुरी । राजाजितञ्जयः। तस्य राज्ञी सुप्रभा । मंत्री सोमशर्मा । तस्य भार्या सोमा । स मंत्री सोमशर्मा सर्वदा कुपात्रविषये रतः । ___ तस्मिन्नेव नगरे समाधिगुप्तभट्टारक आगतः । तन्नगरबाह्यस्थितोपवनमध्ये मासोपवासप्रतिज्ञा गृहीता तेन । तदागमनमात्रेण तद्वनं सशोमं सञ्जातं । यथा हि “शुष्काशोककदम्बचूतबकुलाः खजूरकादिद्रुमाः जाताः पुष्पफलप्रपल्लवयुताः शाखोपशाखाचिताः । शुष्काब्जा जलवापिका प्रभृतयो जाताः पयःपूरिताः क्रीडन्त्येव सुराजहंसशिखिनश्चक्रुः स्वरं कोकिला:॥" पुनश्च "जातीचम्पकपारिजातकजपासत्केतकीमल्लिकाः पग्निन्या सहिताः क्षणांदिकसिताः प्रापुर्दिरेफास्ततः । कुर्वन्तो मधुरं स्वरं सुलालतं तद्धमाघायते गायन्ते विहगाः परस्परपरे भातीदृशं तद्दनम्॥" स तपस्वीहविधः । तद्यथा" देहे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता चारित्रोज्वलता महोपशमता संसारनिर्वेदता। अन्तरबाह्यपरिग्रहत्यजनतां धर्मशता साधुता साधोः साधुजनस्य लक्षणमिदं संसारविच्छेदकम् ॥" पुनः परिग्रहः For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy