SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थकथा । ६७ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmm मवति । ततो भूभागेन राज्ञा, गुणपालेन, अन्यैश्च बहुभिर्जिनचन्द्रमष्टारकसमीपे तपो गृहीतं । केचन श्रावका जाताः, केचन भद्रपरिणामिनो जाताः । श्रीमत्यार्यकासमीपे राज्ञी भोगावती, गुणपाल-भार्या गुणवती, सोमा, अन्याश्च तपोऽगृह्णन्ति स्म । रुद्रदत्तवसुमित्राकामलतादिभिश्च श्रावकवतं गृहीतम् । चन्दनश्रिया भणितं-भो श्रेष्ठिन, एतत् सर्वमपि मया प्रत्यक्षेण दृष्टं । पश्चात् मम दृढतरं सम्यक्त्वं जातम् । ततः श्रेष्ठिनाऽभाणि-यत्त्वया दृष्टं तदहं श्रद्दाधामि, रोचे, इच्छामि च अन्याभिश्च तथैव भणितं । कुन्दलतया भाणतं-सर्वमसत्यमेतदृत्तान्तं । राज्ञा मंत्रिणा चौरेण श्रुत्वा खमनासे भाणत-महो, इयं पापिष्ठा चन्दनश्रीः प्रत्यक्षदृष्टां कथां कथमसत्यं वदति । प्रभातसमये गर्दभस्योपरि चटाप्य निर्घाटयामि । पुनरपि चौरेण मनसि भणितं-निन्दकस्वभावोयम् । तथा चोक्तम् " यो भाषते दोषमविद्यमानं सतां गुणानां ग्रहणे च मूकः। स पापभावस्यात्स विनिन्दकश्च यशोषधः प्राणवधाद्गगरीयान् ।।" इति तृतीयकथा। ४-सम्यक्त्वप्रासविष्णुश्रियः कथा । ततोहदासेन विष्णुश्रीः पृष्टा-भो भार्ये, सम्यक्त्वकारणं कथय ! सा कथयति For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy