________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
अहं जैना । जिनधर्मो दयायुक्तः । जीवघातेन नरकादिदुःखं, जीवरक्षगेन स्वर्गादिसुखं भवति । अत एव सुखार्थिनां जीवघातो में करणीयः । तथा चोक्तम्
पापाहुःखं धर्मात्सुखमिति सर्वजनसुप्रसिद्धमिदम् ।
“ तस्माद्विहाय पापं चरतु सुखार्थी सदा धर्मम् " ततो राज्ञोग्रे पूर्ववृत्तान्तं समस्तमपि सोमया निरूपितं । ततः कुट्टिन्या घटस्थः सर्पो राजोग्रे दर्शितः । सोमया घटस्थं सर्प करे धृत्वा बाह्ये आकृष्टः । स सर्पः पुष्पहारो जातः लोकाग्रे दर्शितः, कुट्टिन्या गृहीतः सो जातः । एवं बहुवारं कृत्वा लोको विस्मयं गतः पुनः कुट्टिन्या भणितं सोमाया एतदेव दिव्यं, यदा मम पुत्री जीवयति तदा सोमा शुद्धा । नान्यथा । एतद्वचनं श्रुत्वा जिनस्तुति कृत्वा जिनं हृदये निधाय निजकरण कामलतायाः शरीरं स्पृष्टं तया, ततो निर्विषा जातोत्थिता च । तथा चोक्तम्
___“ विघ्नौघाः प्रलयं यान्ति शाकिनी भूतपनगाः।
विषं निर्विषतां यान्ति स्तूयमाने जिनेश्वरे ॥" कामलतां दृष्ट्वाऽभयदानं दत्वा राजा कुट्टिनी पृष्टा-किमेतन्ममाने सत्यं कथय । तयोक्त-हे देव, एतत्सर्वं मम चरित्रं, सोमा निर्दुष्टेयमिति पूर्ववृत्तान्तं समस्तमपि कुट्टिन्या राजाने निरूपितम् । इति धर्मप्रभावं निरीक्ष्य राज्ञा मनुष्यैः दैवैश्व सा सोमा पूजिता । अपरश्च देवैः पञ्चाश्चर्याणि कृतानि । ततो लोकैर्भणित,-महो, धर्मात्किं किं न
For Private And Personal Use Only