________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकया।
उत्तमपात्रमध्यमपात्रजघन्यपात्राणामौषधाभयाहारशास्त्रदानानि यथायोग्यं दातव्यानि । तथा चोक्तम्" उत्तमपतं साहू मध्यमपत्तं च सावया भणिया ।
अविरतसम्माइटी जहणपत्तं मुणेयव्वं ॥" पुनश्च,----
" उत्कृष्टपात्रमनगार,-मणुव्रताढयं __ मध्यं, व्रतेन रहितं सुदृशं जघन्यम् । निर्दर्शितं व्रतनिकाययुतं, कुपात्रं
युग्मोज्झितं नरकपात्रमिदं हि विद्धि ॥" पुनश्च
“ अभीतिरभयादा राहाराद्भोगवान्भवेत् । __ आरोग्यमौषधाज्ज्ञेयं शास्त्राद्धि श्रुतकेवली ॥" यः पुनः-- कुपात्रेभ्यो दानं ददाति स आत्मानं पात्रं च नाशयति “ भस्मनि हुतमिवापात्रेष्वर्थव्यय " इति सौमनीतिः· तथा च
" जायते दंदशकस्य दत्त क्षीरं यथा विषम् ।
तथापात्राय यदत्तं तदानं तद्विषं भवेत् ॥ उप्तं यथोषरे क्षेत्रे बीजं भवति निष्फलम् ।
तथापात्राय यहत्तं तहानं निष्फलं भवेत् ॥"
अन्यच्च
For Private And Personal Use Only