________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा ।
वृत्तान्तं निरूपयित्वोपवासं गृहीत्वा तत्रैव जिनालये स्थितम् । गुरुणोक्तं-महत्संसर्गेण कस्योन्नतिर्न भवति । तथा चोक्तम्" संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते । अन्तःसागरशुक्तिसम्पुटगतं तन्मौक्तिकं जायते प्रायेणाधममध्मोत्तमगुणाः संवासतो देहिनाम् ॥
महानुभावसंसर्गः कस्य नोन्नतिकारणम् ।
गंगापविष्टं रथ्याम्बु त्रिदशैरपि वन्द्यते ॥ हेरकेण राज्ञोग्रे निरूपितं-देव, जिनदत्तश्रेष्ठिना चौरेण सह गोष्ठी कृता । राज्ञोक्तं-स राजद्रोही । तत्पार्थे चौरद्रव्यं तिष्ठति । एवं कुपित्वा तद्धरणाथै भटाः प्रेषिताः । यावदेवं वर्तते, तावत्सौधर्मस्वर्गोत्पन्नेन चौरेण भणितं-पुण्यं विनेयं सर्वसामग्री न प्राप्यते । तथा चोक्तम्
" मिष्टान्नपानशयनासनगन्धमाल्यैः
वस्त्रांगनाभरणवाहनयानगैहैः। वस्तूनि पूर्वकृतपुण्यविपाककाले
यत्नाद्विनापि पुरुष समुपाश्रयन्ति ॥” .. " भवप्रत्ययोऽवधिदेवनारकाणाम् " इत्यवधिज्ञानेन सर्ववृन्तान्तं ज्ञात्वा भणितं-स जिनदत्तो मम धर्मोपदेशदाता तस्योपकारं कदापि न विस्मरामि । अन्यथा मां विहाय कोप्यन्यो नास्ति पापी ।
तथा चोक्तम्
For Private And Personal Use Only