________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
सम्यक्त्व-कौमुद्यां
परोपकाराय श्रेष्ठिना भणितं-रे वत्स, मया द्वादशवर्षपर्यन्तं गुरुसेवा कृता । अद्य प्रसन्नेन गुरुणा मंत्रोपदेशो दत्तः । अद्याहं जलाथै गच्छामि चेन्मंत्रोपि विस्मयते, अत एव न गच्छामि ।
चौरेणोक्तमनेन मंत्रेण किं साध्यते ? श्रेष्ठिना भणितं-पश्चनमस्कारनामा मंत्रोयं समस्तसुखं ददाति । तथा चोक्तम्
" आकृष्टिं सुरसम्पदां विदधते मुक्तिश्रियो वश्यता__मुच्चाट विपदां चतुतिभवां विद्वेषमात्मैनसाम् । स्तम्भं दुर्गमनं प्रति प्रयततां मोहस्य संमोहनं ।
पायात्पञ्चनमस्क्रियाक्षरमयी साराधना देवता ॥ ___ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च ।
अमुं मंत्रं समाराध्य तिर्यंञ्चोपि शिवं गताः ॥" चौरेणोक्तं यावत्कालपर्यन्तं त्वया जलमानीयते तावत्कालपर्यन्तमिमं मंत्रमहं घोषयामीति ममोपदेशं दत्वा झटिति जलाथै गच्छ । श्रेष्ठिनोक्तं-तथास्तु । इति मंत्रोपदेशं दत्वा स्वयं जलाथै गतः । ___ तत एकाग्रचित्तेन पञ्चपरमेष्ठिमंत्रमुच्चारयता चौरेण प्राणा विसर्जिताः । पञ्चपरमेष्ठिमंत्रमाहात्म्येन स चौरः सौधर्मस्वर्गे, षोडशाभरणभूषितोऽनेकपरिजनसहितो देवो जातः । श्रेष्ठी कियत्कालं विलम्ब्य चौरसमीप आगतो जलं गृहीत्वा । अविकारकृतजलं दृष्ट्वा श्रेष्ठिनाऽभाणि-अहो, उत समाधिनाऽसौ स्वर्ग गतः। ततः पुत्रेणोक्तं-भो तात, सत्संगतिः कस्य पापं न हरति, अपि तु सर्वस्यापि । ततः श्रेष्ठिना व्याघुट्य परमगुरूणां वन्दनं कृत्वा
For Private And Personal Use Only