SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । तथा चोक्तम्... " पातालमाविशतु यातु सुरेन्द्रमन्दिर मारोहतु क्षितिधराधिपतिं च मेरुम् । मंत्रोषधिप्रहरणैश्च करोतु रक्षा यद्भावि तद्भवति नात्र विचारहेतुः ॥" एतत् सर्व चौरेण श्रुत्वा भणितम् । तथा चोक्तम् "शगालैक्षितौ पादौ काकै रितं शिरः । पूर्वकर्म समायातं किं करोतु नरः सुधीः ॥" भो जिनदत्त, त्वं कृपासागरः परमधार्मिको महाद्रुमवज्जग. दुपकारी, यत् त्वया क्रियते तत् सर्वमपि लोकोपकारार्थम् । अत एव पिपासितस्य मम पानीयं पायय। अद्य तृतीयं दिनं गतं किं करोमि प्राणा न यान्ति । “ यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानं च मोक्षं च किं जटाभस्मचीवरैः ।। छायामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे । फलन्ति च परार्थेषु नात्महेतोर्महा दुमाः ॥ परोपकाराय दुहन्ति गावः __ परोपकाराय फलन्ति वृक्षाः । परोपकाराय वहन्ति नद्यः परापेकाराय सतां प्रवृत्तिः ॥” । भो श्रेष्ठिन् , मन्ये त्वं परोपकारायैव सृष्टः, एवं बहुधा प्रकारैः श्रेष्ठी स्तुतः। एतच्चौरवचनं श्रुत्वापि राजविरुद्धं ज्ञात्वा तथाप्याचित्तेन For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy