SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ पुनश्च - www.kobatirth.org सम्यक्त्व - कौमुद्यां Acharya Shri Kailassagarsuri Gyanmandir " रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पंकजश्रीः । एवं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ 27 राज्ञोक्तमहो भटाः, एनं शूलोपरि स्थापयन्तु । अत्रावसरे कैश्चिपरस्परं भणितमहो, एक व्यसनाभिभूतो नियमेन म्रियते किं पुनः सप्तव्यसनाभिभूतः । तथा चोक्तम् " द्यूताद्धर्मसुतः पलादिह वको मद्याद्यदोर्नन्दनाः चारुः कामितया मृगान्तकतया स ब्रह्मदत्तो नृपः । चौर्यत्वाच्छिवभूतिरन्यवनितादोषाद्दशास्यो हठा देकव्यसनाद्धृता इति जनाः सर्वैर्न को नश्यति ॥ " ततो राजादेशेन शूलोपरि निक्षिप्तः । राज्ञा चतुर्दिक्षु प्रच्छन्नवृत्त्या किंकरा धृताः । कथितञ्चैतेषामग्रे - रे भृत्या, अनेन सह यः कश्चिद्वार्ता करोति स राजद्रोही । तत्पार्श्वे चौरद्रव्यं तिष्ठतीत्येवं विचारणीयं पश्चान्ममाग्रे निरूपणीयम् । अस्मिन् प्रस्तावेऽर्हद्दास पुत्रेण सह जिनदत्तश्रेष्ठी ग्रामवहिः स्थितस्य सहस्रकूटजिनालयाभिषेकं पूजां कृत्वा परमगुरुश्रीजिनचन्द्र भट्टारकस्य पादद्वयस्य वन्दनां कृत्वा च स्वमन्दिरं प्रति चलितः । तस्मिन्नेव पथि तृषाकान्तं रक्तजर्जरितं कंठगतप्राणं शूलेोपरिस्थितं चौरं दृष्ट्वाईद्दासेन पितरं प्रत्यभाणि - भो तात, किमेतत् ? कथमेतेनेदं प्राप्तम् ? पित्रोक्तं-भो सुत, पूर्व यदुपार्जितं तत् कथमुदयं विहाय गच्छति । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy