SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां क च भणितमेतत्कौतुकमावाभ्यां श्रूयते । पुनः श्रेष्ठी कथयति - भो भार्या, दृष्टा श्रुतानुभूता या कथा मया कथ्यते तां दत्तावधानेनाकर्णयन्तु । ताभिरुक्तं - 'महाप्रसाद' इति । श्रेष्ठी निरूपयति स रूपखुरनामा चौरः सप्तव्यसनी भूत्वैकस्मिन्दिने यूतक्रीडां कृत्वा जितं द्रव्यं याचकानां दत्वा क्षुधाक्रान्तो निजगृहं प्रति प्रहरद्वये भोजनार्थं चलितः । राजमन्दिरसमीपतो गच्छता चौरेण रसवत्याः सुगन्धपरिमलं नासिका - यामाधाय मनसि भणितमहो, मम किमपि गहनं नास्ति । ईदृग्विधा रसवती अञ्जनबलेन किमर्थं न भुज्यते । इत्येवं मनसि विचार्य नयनयोरञ्जनं चटाप्य राजमन्दिरं प्रविश्य राज्ञा सह भोजनं कृत्वा गतः । एवं प्रतिदिनं राज्ञा सह भोजनं कृत्वा स्वस्थानं गच्छति । क्रमेण स राजा दुर्बलो जातः । एकदा मंत्रिणा राजशरीरं दुर्बलं दृष्ट्वा चिन्तितमहो, अस्य किमन्नं नास्ति ? अन्यथा कथं दुर्बलो भवतीति । तथा चोक्तम् Į " अनेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यम् । धर्मेण हीनं वत जीवितव्यं न राजते चन्द्रमसा निशीथम् ॥ " ततो मंत्रिणा राजा पृष्टः - भो राजन्, तव शरीरे किमर्थ दौर्बल्यं जातम् ? तत् कारणं कथय । यदि कापि चिन्ता विद्यते सापि निरूपणीया । राज्ञोक्तं - भो मंत्रिन, त्वयि विद्यमाने सति म कापि चिन्ता नास्ति । एतदाश्चर्य यद्भोजनं द्विगुणं त्रिगुणं चतुर्गुणं पञ्चगुणं कृत्वापि मम तृप्तिर्नास्ति परन्त्वेवं जानामि यन्मया For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy