________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा ।
" गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ " अत्रान्तरेऽर्हद्दासश्रेष्ठिनो या कुंदलता लघ्वी भार्याऽस्ति तया भणितंहे स्वामिन्, किमर्थमेवंविधं कौमुद्युत्सर्वं सर्वजनानन्द्रजननं मुक्त्वा देवपूजातपश्चरणादिकं विधीयते युष्माभिः सकलत्रैः ? श्रेष्ठिनाऽभाणि - हे मद्रे, यत्पुण्यं विधीयतेऽस्माभिस्तपरलोकार्थमेव । तथा जल्पितं - हे स्वामिन्, परलोकं दृष्ट्वा कोप्यागतः ? वेह लोके केन धर्मफलं दृष्टम् ! यदीह लोकपरलोकाश्रितं फलं दृष्टं भवति तदा युक्तं देवपूजादिकं, अन्यथा निरर्थकमेव तत् ।
३१
श्रेष्ठिना भणितं - परलोकफलं दूरेस्तु, मयाप्रत्यक्षं धर्मफलं दृष्टं । तत् त्वं शृणु । तयोक्तं - हे स्वामिन्, कथय श्रेष्ठिना भणितं - तथास्तु |
ततः श्रेष्ठी निजसम्यक्त्वप्रापणकथां कथयति । तद्यथा - अत्रैवोत्तरमथुरायां राजा पद्मोदयः । तस्य राज्ञी यशोमतिः । तयोः पुत्र उदितादयः । स उदितोदयः साम्प्रतं राजाधिराजो वर्तते । अत्रैव राजमंत्री संभिन्नमतिः। भार्या सुप्रभा । तयोः पुत्रः सुबुद्धिः सम्प्रति मंत्रीभूत्वा वर्तते ।
1
अत्रैवाञ्जनगुटिकादिविद्याप्रसिद्धो रौप्यसुरनामा चौरः । तस्य भार्या रूपखुरा । तयोः पुत्रः सुवर्णखुरः सम्प्रति चौरो वर्तते । अत्रैव राजश्रेष्ठी जिनदत्तो । भार्या जिनमतिः । तयोः पुत्रोर्हद्दासोहं सम्प्रति श्रेष्ठी भूत्वा तिष्ठामि
एतत्सर्व चौरेण राज्ञा मत्रिणा श्रुतं। चौरेण मनस्युक्तमहो, मम चौरव्यापारो नित्यमस्ति । अद्यासौ किं किं निरूपयतीति श्रूयते । राज्ञा मंत्रिणा
1
For Private And Personal Use Only