________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
तथा चोक्तम्-.
" मज्जत्वम्भसि यातु मेरुशिखरं शत्रु जयस्वाहवे ___ वाणिज्यं कृषिसेवनादिसकलाः पुण्याः कलाः शिक्षतु । .. आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभव्यं भवतीह कर्मवशतो भावस्य नाशः कुतः ॥" श्रेष्ठिनोक्तं भवतीभियर्युक्तं तत्सत्यमेव । उपवासदिने निनागमादिश्रवणं कर्तव्यम् । तदेव कर्मक्षयस्य कारणं भवति, न तु कीडार्थ वनगमनम् । तथा चोक्तम्-~
" एकाग्रचित्तस्य दृढवतस्व
पञ्चेन्द्रियपीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य
___ मोक्षो ध्रुवं नित्यमहिंसकस्य ॥" ताभिरुक्तं हे देव, अस्माभिस्त्वया च स्वगृहमध्यस्थे सहस्रकूटचैत्यालये जागरणं कर्तव्यम् । श्रेष्ठिना भणितं-तथास्तु । ततोऽनेकमंगलद्रव्यसहितः श्रेष्ठी, ताश्च सहस्रकूटचैत्यालयं गतास्तत्र मंगलधवलशब्दादिना भगवतः परमेश्वरस्य पूजां कृत्वा धर्मानन्दविनोदेन परस्परं स्थिताः । ततो भार्याभिभीणतं-भो श्रेष्ठिन् , तव दृढतरसम्यकत्वं कथं जातम् ? तनिरूपणीयम् । श्रेष्ठिना भणितं-पूर्व यु. ष्मामिनिरूपणीयं सम्यक्त्वकारणम् । तामिरुक्तंभो श्रेष्ठिन् , त्वमस्माकं पूज्यः त्वया पूर्व निरूपणीयं पश्चादस्माभिर्निरूप्यते ।
तथा चोक्तम्
For Private And Personal Use Only