SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमकथा ! Acharya Shri Kailassagarsuri Gyanmandir " धर्मशास्त्रविनोदेन कालो गच्छति धीमताम् । इतरेषां मनुष्याणां निद्रया कलहेन च । तथा चोक्तम्— ܙܕ मन्त्रिणोक्तम् —— एवमस्तु । एवं पर्यालोच्यालक्ष्यभूतौ द्वौ चलितौ नगरराम्यन्तर आश्चर्यमवलोकयतः । एकस्मिन् प्रदेशे छायापुरुषो दृष्टः । राज्ञोक्तं- भो मंत्रिन्, कोय ? तेनोक्तं- हे देव, अञ्जनगुटिकाप्रसिद्धः सुवर्णखरनामा चौरोयम् । राज्ञोक्तमसौ क्व गच्छतीति अनेन सह गन्तव्यम् । एवं पर्यालोच्य चौरपृष्ठतो लग्नौ द्वौ । स चौरः क्रमेणाद्दासश्रेष्ठिगृहप्राकारस्योपरि वटवृक्षस्योपरि अलक्ष्यीभूत्वा स्थितः । राजा मंत्री चालक्ष्यौ भूत्वा तद्वृक्षमूले स्थितौ । अस्मिन् प्रस्ताव अष्टोपवासिनाऽर्हद्दासश्रेष्ठिना स्वकीया अष्टौ भार्याः प्रति भणितंभो भार्या, अद्य नगरमध्ये पुरुषान्विहाय स्त्रियः सर्वा अपि राजादेशेन वनक्रीडार्थ गता भवत्योपि व्रजन्तु । अहं धर्मध्यानेन गृहे तिष्ठामि । अन्यथाऽऽज्ञाभंगेन सर्पवद्विषमो राजा सर्वमनिष्टं करिष्यति । २९ " मणिमंत्रौषधिस्वस्थः सर्पदष्टो विलोकितः । नृपैर्दृष्टिविषैर्दष्टो न दृष्टः पुनरुत्थितः ॥ " ताभिरुक्तं - भो स्वामिन्, अस्माकमष्टोपवासा अद्य संजाताः । उपवासदिने धर्म विहाय वनक्रीडार्थ कथं गम्यते । इत्येवं भवन्तो विचारयन्तु । ततस्तेन राजादेशेन किं प्रयोजनं यदस्माभिरुपार्जितं तद्भविष्यत्येव, न वयं वने गच्छामः । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy