________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्या
" निदाघे दाघार्तः प्रचुरतरतृष्णा तरलितः
सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः। तथा पंके ममस्तटनिकटवर्तिन्यपि यथा
न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥" यत्त्वया कथितं तत्सर्वमपि सत्यं वने गमने विरुद्धमवगते सार्व ममापि सुयोधनावस्था भविष्यत्येवात्र संदेहाभावः ।
सुबुद्धिमंत्रिणोक्तं-हे राजन्, मंत्र्यभावे राज्यनाश एव । तथा चोक्तम्
" एकं विषरसो हंति शस्त्रेणैकश्च हन्यते ।
सबन्धुराष्ट्र राजानं हन्त्येको मंत्रिविप्लवः ॥" राज्ञोक्तं योऽनर्थकार्य निवारयति स परमो हि मंत्री ।
सुबुद्धिमंत्रिणोक्तं-भो राजन्, मंत्रिणा स्वामिहितं कार्य कर्तव्यम् । राज्ञोक्तं-भो मंत्रिन्, त्वमेव सत्पुरुषो लोके त्वयि सति मदीयाsपकीर्तिर्दुर्गतिश्च गता। तथा चोक्तम्
" (?) गुण जाई निगुणस्स गोठह, धन जाई पापिणीदिही। तप जाइ तरुणिनैसंगि मलपरा जाइ नीचनैसंगि ।।"
एवं नानाप्रकारैत्रिणं स्तुत्वा राज्ञा कथितं-मो मंत्रिन्, रात्रिनिर्गमनाथै, विनोदाथै च नगरभ्रमणं क्रियते, तत्र किंचिदाश्चर्य दृश्यते ।
तथा चोक्तम्
For Private And Personal Use Only