________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपमकया।
स्थापितः । त्रयाणां निर्गमनसमये लोकमणितम्-अहो, '' विनाश काले शरीरस्था बुद्धिरपि गच्छंती'-ति लोकोक्तिः सत्येयम् । तथोक्तम्
“रामो हेममृगं नवेत्ति नहुषो याने युनक्ति द्विजा. विपस्यापि सवत्सधेनुहरणे जातामतिश्चार्जुनेः । धूते भातृचतुष्टयं च महिषी धर्मात्मनो वृत्तवा- ..
न्यायः सत्पुरुषो विनाशसमये बुझ्या परित्यज्यते ॥ तथा च
" ( ? ) रावणतणेकपाले, अठोतरसो बुद्धि बसई ।
लंकाभंजनकाले, इकई बुद्धि न संपडी ॥" निर्गमनसमये राज्ञोक्तमहो, मया चिन्तितं यमदंडं मारयित्वानेनोपायेन सुखेन राज्यं क्रियते । अयं विपाकः कर्मणो मम मध्ये समा वातः । एवं सर्ववृत्तान्तं सुबुद्धिमंत्रिणोदितोदयराजानं प्रति निरूपितम्। अत एवाहो देव, केनापि सह विरोधो न कर्तव्यः । विरोधेसति स्वस्य नाश एव नान्यत् । तथा चोक्तम्__पराभवो न कर्तव्यो यादृशे तादृशे जने।
तेन टिभिमात्रेण समुद्रो व्याकुलीकृतः ॥” . - एतत्सर्वमाख्यानं श्रुत्वोदितोदयेन राज्ञोक्तं-भो सुबुद्धे, ततो निर्मममसमये राज्ञा तौ प्रति भणितम्-" अहो मया यमदंडमनेनोई पायेन मारयित्वा सुखेन राज्यं क्रियते " एवं मनसि चिन्तितम् । अयं कर्मविपाको मध्ये समागमिष्यतीति को जानीते ।
तथा चोक्तम्
For Private And Personal Use Only