SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां अनेन धूर्तेन सप्त दिनेषु प्रतारितोऽहं । इदानीं चौर वस्तु चासौ न प्रयच्छति चेदेनं शतखंडं कृत्वा दिग्बलिं दास्यामि । एतद्राज्ञो वचनं श्रुत्वा निदाने तेन यमदंडेन यज्ञोपवीतपादुकामुद्रादिकं गृहादानीय सभाग्रे निधाय भणित-भो न्यायवेदिनो महाननाः, इदं वस्तु, एते चौरा यथा भवतां मनसि रोचते तथा कुर्वन्तु । इत्येवं निरूप्य पदमेकममाणि । तद्यथा " जत्थ राया सयं चोरो समंती सपुरोहितो । वणं वजह सव्वेपि जादं सरणदो भयं ॥" पुनरपि यमदंडेनोक्तं-यद्यविचार्य नरपतिं भवन्तो न त्यजन्ति तर्हि पुण्येन दुराकृता भवन्त इत्येवं ज्ञातव्यं भवद्भिः । तथा चोक्तम् " मित्रं शत्रुगतं कलत्रमसतीं पुत्रं कुलध्वंसिनं मूर्ख मंत्रिणमुत्सुकं नरपतिं वैद्य प्रसादास्पदम् । देवं रागयुतं गुरुं विषयिणं धर्म दयावर्जितं यो वा न त्यजति प्रमोहषशतः स त्यजते श्रेयसा ॥" ततो महाजनेन पादुकाभ्यां राजा चौर इति ज्ञातं, मुद्रिकया मंत्री चौर इति ज्ञातं, यज्ञोपवीतेन पुरोहितश्चौर इति ज्ञातम् । ततः सर्वैः सह पर्यालोच्य पश्चात् राजानं निर्घाट्य राजपुत्रो राजपदे स्थापितः । मंत्रिणं. निर्घाट्य मंत्रिपुत्रो मंत्रिपदे स्थापितः । पुरोहितं निर्घाट्य पुरोहितपुत्रः पुरोहितपदे १ अवसाने। For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy